TBD.
चरणे गम्यमाने ब्रह्मचारिणि उत्तरपदे समानस्य स इत्ययम् आदेशो भवति। समानो ब्रह्मचारी सब्रहमचारी। ब्रह्म वेदः, तदध्ययनार्थं यद् व्रतं तदपि ब्रह्म, तच् चरति इति ब्रहमचारी। समानः तस्य एव ब्रह्मणेः समानत्वदित्ययम् अर्थो भवति। समाने ब्रह्मणि व्रतचरी सब्रह्मचरी इति।
TBD.
–
999 चरणे ब्राहृचारिणि। समानस्येति स इति चानुवर्तते। `उत्तरपदे' इत्यधिकृतम्। तदाह–ब्राहृचारिण्युत्तरपदे समानस्य सः स्यादिति। `चरणे' इति सप्तमी समानस्येत्यत्राऽन्वेति। चरणे विद्यमानस्येत्यर्थः। फलितमाह–चरणे समानत्वेन गम्यमाने इति। तत्र चरणपदं व्याचष्टे–चरणः शाखेति। वैदिकप्रसिद्धिरेवात्र मूलम्। ब्राहृचारिपदं निर्वक्तुमाह–ब्राहृ वेद इति। `वेदस्तत्त्वं तपो ब्राहृए'त्यमरः। तच्चरणार्थमिति। तस्य=वेदस्य, चरणम्=अध्ययनं तच्चरणं, व्रतमपि ब्राहृशब्देन विवक्षितमित्यर्थः। गौण्या वृत्त्ये'ति शेषः। तच्चरतीति। तद्व्रतं चरति=अनुतिष्ठतीत्यर्थे ब्राहृचारिशब्द इत्यर्थः। `सुप्यजातौ' इति णिनिः। समानस्य स इति। `समानो ब्राहृचारी'ति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सति `सब्राहृचारी'ति रूपमित्यर्थः। समानत्वं च वेदद्वारा बोध्यम्। तथाच समानवेदाध्ययनार्थं व्रतचारीति फलितोऽर्थः। भाष्ये तु समाने ब्राहृणि व्रतं चरतीत्यर्थे चरेर्णिनिव्र्रतशब्दस्य लोपश्चाऽत्र निपात्यत इत्युक्तम्।
849 ब्राहृचारीति। `व्रते'इति णिनिः। सब्राहृचारीति। समानो ब्राहृचारीत्यर्थः। ब्राहृचारिणश्च समानत्वं–ब्राहृणः समानत्वात्। ततश्च `समाने ब्राहृणि व्रतचारी'ति फलितोऽर्थः।
TBD.