TBD.
उपसर्जनसर्वावयवः समासः उपसर्जनम्। यस्य सर्वे ऽवयवा उपसर्जनीभूताः स सर्वोपसर्जनो बहुव्रीहिर् गृह्यते। तदवयवस्य सहशब्दस्य वा स इत्ययम् आदेशो भवति। सपुत्रः, सहपुत्रः। सच्छात्रः, सहच्छात्रः। उपसर्जनस्य इति किम्? सहयुध्वा। सहकृत्वा। सहकृत्वप्रियः, प्रियसहकृत्वा इति इह बहुव्रीहौ यदुत्तरपदं तत् परः सहशब्दो न भवति इति सभावो न भवति।
TBD.
–
840 वोपसर्जनस्य। `उत्तरपदे' इत्यधिकृतम्। `सहस्य सः संज्ञाया'मित्यतः `सहस्य स' इत्यनुवर्तते। उपसर्जनमस्यास्तीत्युपसर्जनः, मत्वर्थे अर्शाअद्यच्। उत्तरपदाक्षिप्तसमासो विशेष्यम्। उपसर्जवनतः समासस्येत्यर्थः। यद्यपि सर्वेषामपि समासानां कश्चिदवयव उपसर्जनमेव, तथापि सामथ्र्यादुपसर्जनसर्वावयवकस्येति लभ्यते। तथाच उपसर्जनस्येत्यनेन बहुव्रीहेरिति लब्धम्। अवयवषष्ठ\उfffदेषा। तदाह– बहुव्रीहेरवयवस्येत्यादिना। बहुव्रीहेरिति किम् ?। सहयुध्वा। `राजनि युधि कृञः, `सहे चे'ति क्वनिप्। उपपदसमासः। अबहुव्रीह्रवयवस्य सहस्य सत्वं न। सुपुत्र इति। सभावे रूपम्। पुत्रेण युगपदागत इत्यर्थः। प्रायिकमिति। इतिशब्दादिदं लभ्यते। `विभाषा सपूर्वस्ये'त्यादिनिर्देशाच्चेति भावः। सकर्मक इति। विद्यमानकर्मक इत्यर्थः। अत्र तुल्ययोगाऽभावेऽपि सहस्य सः।
737 वोपसर्जनस्य। उपसर्जनस्येति न सहस्य विशेषणम्, अव्यभिचारात्। किं तूत्तरपदेन संनिधापितस्य समासस्य। तच्चावयवद्वारकम्। उपसर्जनसर्वावयवकस्य समासस्येत्येर्थः। तदेतत्फलितमाह—बहुव्रीहीति। तेनेह न,–सहयुध्वा। सहकृत्वा। राजनि युधि कृञः `सहे चे'ति क्वनिपि उपपदसमासाविमौ। `सहस्य सः संज्ञाया'मित्यतोऽनुवर्तनादाह–सहस्य सः स्यादिति। प्रायिकमिति। `विभाषा सपूर्वस्ये'त्यादिनिर्दिशादिति भावः। सकर्मक इति। विद्यमानकर्मक इत्यर्थः। सभ्रातृकस्य सपरिवारस्यायुरारोग्यै\उfffदार्याभिवृद्धिरस्तु' इत्यादिप्रयोगाः सङ्गच्छन्त इति चेत्। उच्यते—-`ऐ\उfffदार्याभिवृद्धिरस्त्विति भवन्तोऽनुगृह्णन्तु' इत्येतत्प्रार्थनावाक्यं, न त्वाशीर्वचनम्। यच्चाशीर्वचनं `तथास्तु'इति , तत्र हि सपुत्रकेत्यादि न प्रयुज्यत एवेति न काप्यनुपपत्तिः।
TBD.