Table of Contents

<<6-3-78 —- 6-3-80>>

6-3-79 ग्रन्थान्ताधिके च

प्रथमावृत्तिः

TBD.

काशिका

ग्रन्थान्ते अधिके च वर्तमानस्य सहशब्दस्य स इत्ययम् आदेशो भवति। सकलं ज्यौतिषमधीते। समुहूर्तम्। ससङ्ग्रहं व्याकरणम् अधीयते। कलान्तं, महूर्तान्तं, सङ्ग्रहान्तम् इति अन्तवचने इत्यव्ययीभावः समासः। तत्र अव्ययीभावे चाकाले इति कालवाचिन्युत्तरपदे समासो न प्राप्नोति इत्ययम् आरम्भः। अधिके सद्रोणा खारी। समाषः कार्षापणः। सकाकिणीको माषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

995 ग्रन्थान्ताधिके च। ग्रन्थान्तश्च अधिकश्चेति समाहारद्वन्द्वः। अनयोरर्थयोरिति। `विद्यमानस्ये'ति शेषः। समुहूर्तमिति। मुहूर्तविधिपरग्रन्थपर्यन्तं ज्योतिःशास्त्रमधीत इत्यर्थः। अन्तवचनेऽव्ययीभावः। `अव्ययीभावे चाऽकाले' इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम्। सद्रोणा खारीति। द्रोणपरिमाणादधिकेत्यर्थः। मयूरव्यंसकादित्वात्सहशब्दस्याधिकवाचिनः समासः, सभावश्च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.