Table of Contents

<<6-3-79 —- 6-3-81>>

6-3-80 द्वितीये च अनुपाख्ये

प्रथमावृत्तिः

TBD.

काशिका

द्वयोः सहयुक्तयोरप्रधानो यः स द्वितीयः। उपाख्यायते प्रत्यक्षत उपलभ्यते यः स उपाख्यः। उपाख्यादन्यः अनुपाख्यः अनुमेयः। तस्मिन् द्वितीये ऽनुपाख्ये सहस्य स इत्ययम् आदेशो भवति। साग्निः कपोतः। सपिशाचा वात्या। सराक्षसीका शाला। अग्न्यादयः साक्षादनुपलभ्यमानाः कपोतादिभिरनुमीयमानाः अनुपाख्या भवन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

996 द्वितीये चानुपाख्ये। अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः। उपाख्यायते प्रतीयते उपलभ्यते इत्युपाख्यं=प्रत्यक्षम्। तदन्यदनुपाख्यम्। अनुमेयमिति यावत्। तदाह–अनुमेय इति। सहायवाचिन्युत्तरपदे परत इत्यर्थः। सराक्षसीकेति। `तेन सहे'ति बहुव्रीहिः। `नद्यृतश्चे'ति कप्। अनुमेयराक्षसीसहिता निशेत्यर्थः। तदाह–राक्षसी साक्षादिति।

तत्त्वबोधिनी

846 द्वितीये। `अप्रधानो यः स द्वितीयः'इति लोकप्रसिद्धम्। उपाख्यं=प्रत्यक्षं, तद्भिन्नमनुमेयं। तदाह—अनुमेये इति। सराक्षसीकेति। `नद्यृतश्चे'ति कप्।

Satishji's सूत्र-सूचिः

TBD.