TBD.
सहशब्दस्य स इत्ययम् आदेशो भवति संज्ञायां विषये। साश्वत्थम्। सपलाशम्। सशिंशपम्। संज्ञायाम् इति किम्? सहयुध्वा। सहकृत्वा। सादेश उदात्तो निपात्यते। उदात्तानुदात्तवतो हि सहशब्दस्य अन्तर्यतः स्वरितः स्यात्। सनिपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र तत्र उपयुज्यते। अन्यत्र समासान्तोदात्तत्वेन बाध्यत एव, सेष्टि, सपशुबन्धम् इति।
TBD.
–
994 सहस्य सः। उत्तरपदे इति। शेषपूरणेनोक्तमिदम्। सहेत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः। `वोपसर्जनस्ये'त्यस्यापवादः। सपलाशमिति। `तेन सहे'ति बहुव्रीहिः। वनविशेषस्य संज्ञेयम्। सहयुध्वेति। `सबे चे'ति क्वनिप्। असंज्ञात्वान्न सभावः।
845 सहयुध्वेति। `सहे चे'ति क्वनिप्। स्त्रियामपि `वनो न हशः'इति निषेधान्ङीब्राऔ न। समुहूर्तमिति। अन्तवचनेऽव्ययीभावः। `अव्ययीभावे चाऽकाले'इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम्।
TBD.