TBD.
एकादिश्च नञ् प्रकृत्या भवति, एकशब्दस्य च आदुकागमो भवति। एकेन न विंशतिः कान्नविंशतिः। एकान्नत्रिंशत्। तृतीया इति योगविभागात् समासः। पूर्वान्तो ऽयम् आदुक् क्रियते पदान्तलक्षणो ऽत्र अनुनासिको विकल्पेन यथा स्यातिति।
TBD.
–
801 एकादिश्च। `नलोपो नञः' इत्यतो `नञ' इति षष्ठ\उfffद्न्तमनुवर्तते। तच्चप्रथमया विपरिणम्यते। `नभ्राण्नपात्' इत्यतः प्रकृत्येत्यनुवर्तते। तदाह– एकादिर्नञ्प्रकृत्येति। एक आदिर्यस्येति विग्रहः। एकस्य चादुगागमश्चेति। आदु'गिति `अदु'गिति वा च्छेदः। नञो विंशत्येति। न विंशतिरिति विग्रहे नञ्समासे सति `नवंशति' शब्दस्यैकशब्देन तृतीयान्तेन सह एकेन नवंशितिरिति विग्रहे समास इत्यन्वयः। ननु तत्कृतत्वाद्यभावात्कथमिह तृतीयासमास इत्यत आह–योगविभागादिति। अनुनासिकविकल्प इति। तृतीयासमासे कृते सुब्लुकि एक नविंशतिरिति स्थिते `न लोपो नञः' इति प्राप्तस्य नकारलोपस्य प्रकृतिभान्निवृत्तौ एकशब्दस्याऽऽदुगागमः, तत्र ककार इत्, उकार उच्चारणार्थः। कित्त्वादन्तावयवः, सवर्णदीर्घः, एकाद्-नविंशतिरिति स्थिते `यरोऽनुनासिके' इति दकारस्य पक्षेऽनुनासिकनकार इत्यर्थः। अदुगागमपक्षेऽपि पररूपं तु अकारोच्चारमसामथ्र्यान्न भवति। एकेन न विंशतिरिति। विग्रहवाक्यम्। एकेन हेतुना विंशतिर्न भवतीत्यर्थः। एकान्नविंशतिः, एकाद्नविंशतिरिति। अनुनासिकत्वे तदभावे च रूपम्। एकोनविंशतिरित्यर्थ इति। `पर्यवस्यती'ति शेषः। एकेन ऊनेति विग्रहः। `पूर्वसदृशे'ति समासः। सा चासौ विंशतिश्च।
–
TBD.