TBD.
रात्रेः कृदन्त उत्तरपदे विभाषा मुमागमो भवति। रात्रिञ्चरः, रात्रिचरः। रात्रिमटः, रात्र्यटः। अप्राप्तविभाषा इयम्। खिति हि नित्यं मुम् भवति। रत्रिम्मन्यः।
TBD.
–
993 रात्रेः कृति। अस्य उत्तरपदाधिकारस्थत्वेन `प्रत्ययग्रहणे तदन्तग्रहण'मिति तु इह न भवति। कृतः धातुप्रकृतिकत्वेन रात्रेः कृतोऽसंभवात्तदन्तविधिरित्यभिप्रेत्य आह–कृदन्ते परे इति। रात्रेर्मुम्वा स्यादित्यर्थः। रात्रिञ्चरः, रात्रिचर इति। सुप्युपपदे चरेष्टः, उपपदसमासः, सुब्लुकि पक्षे मुम्। रात्रिमटः रात्र्यट इति। सुप्युपपदे मूलविभुजादित्वात्कः। उपपदसमासः, सुब्लुकि पक्षे मुम्। रात्रिमटः रात्र्यट इति। सुप्युपपदे मूलविभुजादित्वात्कः। उपपदसमासः। सुब्लुक् पक्षे मुम्। ननु ननु `रात्रिम्मन्यः' इत्यत्रापि मुम्विकल्पः स्यादित्यत आह–अखिदर्थमिति। खिति त्विति। खिति तु इमं मुम्विकल्पं बाधित्वा पूर्वविप्रतिषेधेन `अरुर्द्विषदजन्तस्ये'ति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यत इत्यर्थः। रातिरम्मन्य इति। `आत्ममाने खश्चे'ति खश्। खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे `दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्य `आत्ममाने खश्चे'ति खश्। `खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे `दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यं मुमिति भावः।
844 रात्रेः कृति। उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाऽभावेऽपि रात्रिशब्दात्परत्र कृतोऽसंभवात्कृदन्त उत्तरपदेऽयं विधिरित्याशयेनोदाहरति— रातिं?रचर इथि। यद्यप्याचारक्विबन्ताण्ण्वुलादिः संभवति, तथापि विलम्बितोपस्थितिकत्वात्स न गृह्रत इति भावः। नित्यमेवेति। पूर्वविप्रतिषेधेनेति भावः। रात्रिम्मन्य इति। `आत्ममाने खश्चे'ति खश्। खशः सार्वधातुकत्वात्तस्मिन्परे श्यन्।
TBD.