Table of Contents

<<6-3-70 —- 6-3-72>>

6-3-71 श्येनतिलस्य पाते ञे

प्रथमावृत्तिः

TBD.

काशिका

श्येन तिल इत्येतयोः पातशब्दे उत्तरपदे ञप्रत्यये परे मुमागमो भवति। श्येनपातो ऽस्यां क्रीडायाम् श्यैनम्पाता। तैलम्पाता। ञे इति किम्? श्येनपातः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1249 श्येनतिलस्य। मुमागम इति। `अरुर्द्विष' दित्यतस्तदनुवृत्तेरिति भावः। ञप्रत्यये इति। ञप्रत्यये परे यः पातशब्दस्तस्मिन्नित्यर्थः। उत्तरपदे इति। `अलुगुत्तरपदे' इत्यतस्तदधिकारादिति भावः। श्येनपात इति। पतनं पातः। भावे घञ्। श्यैनंपातेति। श्येनपातशब्दाद्धञन्ताञ्ञः। यद्यपि पातशब्द एव घञन्तस्तथापि कृद्ग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणं बोध्यम्। श्येनस्य पात इति कृद्योगषष्ठ\उfffदा समासः। तथाच श्येनपातशब्दस्यादिवृद्धिः। तैलंपाता स्वधेति। स्वधाशब्दः स्त्रीलिङ्ग पित्र्यक्रियायां वर्तते, `नमः स्वधायै' इत्यादिदर्शनात्। `स्वधे'त्यनेन क्रीडायामिति नानुवर्तते इति सूचितम्। तदस्यामिति प्रकृते पुनरस्यामिति ग्रहणात्।

तत्त्वबोधिनी

1015 दण्डापातोऽस्यां तिथाविति।

Satishji's सूत्र-सूचिः

TBD.