TBD.
वैयाकरनानामाख्या वैयाकरणाख्या। आख्या संज्ञा। यया संज्ञया वैयाकरणा एव व्यहरन्ति तस्याम् आत्मनः उत्तरस्याश्चतुर्थ्या अलुग् भवति। आत्मनेपदम्। आत्मनेभषा। तदर्थ्ये चतुर्थी। चतुर्थी इति योगविभागात् समासः।
TBD.
–
949 वैयकरणाख्यायाम्। आत्मन इत्येवेति। अनुवर्तत एवेत्यर्थः। न च `आत्मनश्चे'त्यस्य वार्तिकत्वे कथमिह सूत्रे एतदनुवृत्तिरिति वाच्यं, `सोऽपदादौ' इति सूत्रे पठितस्य `काम्ये रोरेवेति वाच्य'मिति वार्तिकस्य `इणः षः' इति सूत्रेऽनुवृत्तिवदुपपत्तेः। व्याकरणे भवा वैयाकरणी, सा चासावाख्या च वैयाकरणाख्या, तस्यां या चतुर्थी तस्या अलुगित्यर्थः। आत्मनेभाषे इति। पूर्वाचार्यकृतमात्मनेपदस्य संज्ञान्तरमिदं धातुपाठे प्रसिद्धम्। तादर्थ्ये चतुर्थीति। तथा चात्मने इत्यस्याऽऽत्मार्थमित्यर्थः। आत्मगामिनि फले प्रायेण तद्विधानादिति भावः। ननु प्रकृतिविकाराऽभावात्कथमिह तादर्थ्ये चतुर्थ्याः समास इत्यत आह–चतुर्थीति योगविभागादिति। पस्पासाह्निकभाष्ये `धर्माय नियमो धर्मनियम' इति भाष्यमिह लिङ्गन्।
820 वैयाकरणा। व्याकरणे भवा वैयाकरणी। अणृगयनादिभ्यः इत्यण्। सा चासावाख्या चेति कर्मधारयः। आत्मन इत्येवेति। इह आत्मनः इत्यननुवत्र्य वैयाकरणाख्यायां चतुथ्र्या अलुगिति व्याख्याने तु परसय् चेत्युत्तरसूत्रं त्युक्तं शक्यमित्याहुः। आत्मनेभाषा इति। यद्यपीयमाख्या अष्टाध्यायां नास्ति, तथापि धातुपाठेऽस्तीति भावः। प्रकृतिविकृतिभावविरहात् रन्धनाय स्थालीतिवत्समासाऽभावमाशङ्क्याह– योगविभागादिति। इहाऽलुग्विधिसामथ्र्यादपि समासः सुवचः।
TBD.