TBD.
खिदन्ते उत्तरपदे ऽनव्ययस्य ह्रस्वो भवति। कालिंमन्या। हरिणिम्मन्या। मुमा ह्रस्वो न बाध्यते, अन्यथा हि ह्रस्वशासनम् अनर्थकं स्यात्। अनव्ययस्य इति किम्? दोषामन्यमहः। दिवामन्या रात्रिः। अनव्ययस्य इत्येतदेव ज्ञापकम् इह खिदन्तग्रहणस्य।
TBD.
809 खिदन्ते परे पूर्वपदस्य ह्रस्वः. ततो मुम्. कालिम्मन्या..
756 खित्यनव्ययस्य। ह्यस्वः स्यादिति। `इको ह्यस्वोऽङ्यो गालवस्य' इत्यतस्तदनुवृत्तेरिति भावः। अत्र ह्यस्वश्रुत्या अच इत्युपस्थितं द्रष्टव्यम्। ततो मुमिति। पूर्वं ह्यस्वे कृते ततो मुमित्यर्थः। पूर्वं मुमि कृते तु अजन्तत्वाऽभावाद्ध्रस्वो न स्यादिति भावः। शर्धञ्जहा माषा इति। भाष्ये तु `मृगा' इति पाठः। शर्द्धः अपानद्वारे स्थितः शब्द इति माधवादयः। अन्तर्भावितेति। तथा च शद्र्ध हापयन्तीति विग्रहः फलितः। भाष्ये तु `वातशुनी'इति वार्तिके गर्धे'ष्विति पठितम्।
631 शर्द्धंजहा इति। शर्धनं शर्धः। शृधु कुत्सायाम्। घञ्। तं जहाति इति। ननु माषाः शद्र्धमपानशब्दं त्याजयन्ति न तु स्वतो जहतीत्याशङ्कायामाह– अन्तर्भावितण्यर्थ इति। यथासङ्ख्यं वारयितुमाह– अत्रेति।
TBD.