Table of Contents

<<6-3-64 —- 6-3-66>>

6-3-65 इष्टकाइषीकामालानां चिततूलभारिषु

प्रथमावृत्तिः

TBD.

काशिका

इष्टकेषीकामालानां चित तूल भारिनित्येतेषु उत्तरपदेषु यथासङ्ख्यं ह्रस्वो भवति। इष्टकचितम्। इषीकतूलम्। मालभारिणी कन्या। इष्तकादिभ्यस् तदन्तस्य अपि ग्रहणं भवति। पक्वेष्टकचितम्। मुञ्जेषीकतूलम्। उत्पलमालभारिणी कन्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

991 इष्टकेषीका। उत्तरपदे इत्यधिकृतम्। तल्लब्धं पूर्वपदमिष्टकादिभिर्विशेष्यते। तदन्तविधिः। व्यपदेशिवद्भावात्तेषामपि ग्रहणम्। उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात् `पदाङ्गधिकारे तस्य तदन्तस्य चे'ति वचनेन वा तेषां ग्रहणम्। `इको ह्यस्वः' इत्यतो ह्यस्व इत्यनुवर्तते। तदाह–इष्टकादीनां तदन्तानां चेति। इष्टकचितमिति। इष्टकादिभिश्चितमिति विग्रहः। `कर्तृकरणे कृते'ति समासः। तदन्तविधेः प्रयोजनमाह–पक्वेष्टकचितमिति। इषीकातूलमिति। इषीकायास्तूलमिति विग्रहः। तूलमग्रं। शष्पमित्यन्ये। मुञ्जेषीततूलमिति। मुञ्जेषीकायास्तूलमिति विग्रहः। मालभारीति। `सुप्यजातौ' इति णिनिः। [सूत्रे]हारिष्विति पाठान्तरम्।

तत्त्वबोधिनी

842 इष्टकचितमिति। `कर्तृकरणे कृते'ति तृतीयासमासः। पक्वेष्टकचितमिति। पदाधिकारात्तदन्तविधिः प्रवर्तत इति भावः। मालभारीति। `मालां बिभर्ती'त्यर्थः। `सुप्यजातौ' इति णिनिः। `हारिषु'इति पाठान्तरम्।

Satishji's सूत्र-सूचिः

TBD.