Table of Contents

<<6-3-61 —- 6-3-63>>

6-3-62 एक तद्धिते च

प्रथमावृत्तिः

TBD.

काशिका

एकशब्दस्य तद्धिते उत्तरपदे ह्रस्वो भवति। एकस्या आगतम् एकरूप्यम्। एकमयम्। एकस्य भावः एकत्वम्। एकता। उत्तरपदे एकस्याः क्षीरम् एकक्षीरम्। एकदुग्धम्। लिङ्गविशिष्टस्य ग्रहणम् एकशब्दह्रस्वत्वं प्रयोजयति। अचा हि गृह्यमाणम् अत्र विशेष्यते, न पुनरच् गृह्यमाणेन इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

985 एक तद्धिते च। एकेति लुप्तषष्ठीकम्। तदाह–एकशब्दस्येति। `स्त्रीप्रत्ययान्तस्ये'ति शेषः, अन्यथा ह्यस्वविधिवैयथ्र्यात्। उत्तरपदे चेति। चकारात्तदनुकर्ष इति भावः। एकरूप्यमिति। `हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः'। एकक्षीरमिति। एकश्याः क्षीरमिति विग्रहः।

तत्त्वबोधिनी

839 एक तद्धिते च। `एके'ति लुप्तषष्ठीकं, तदाह—एकशब्दस्योति। ह्यस्वविधानमस्य टाबन्ते एवोपयुज्यते न तु केवले, स्वभावत एव ह्यस्व त्वादतो व्याचष्टे—एकस्या आगतमित्यादि।

Satishji's सूत्र-सूचिः

TBD.