Table of Contents

<<6-3-48 —- 6-3-50>>

6-3-49 विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्

प्रथमावृत्तिः

TBD.

काशिका

चत्वारिंशत्प्रभृतौ संख्यायाम् उत्तरपदे ऽबहुव्रीह्यशीत्योः सर्वेषाम् द्वि अष्टन् त्रि इत्येतेषां यदुक्तं तद्विभाष भवति। द्विचत्वारिंशत्, द्वाचत्वारिंशत्। त्रिपञ्चाशत्, त्रयःपञ्चाशत्। अष्टपञ्चाशत्, अष्टापञ्चाशत्। प्राक्शतातित्येव, द्विशतम्। अष्टशतम्। त्रिशतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

800 विभाषा चत्वारिंशत्। व्यवहितस्यापि `द्व्यष्टनो'रित्यस्य सम्बन्धाय– सर्वेषामिति। द्व्यष्टनोस्त्रेश्चेत्यर्थः। तदाह–द्व्यष्टनोस्त्रेश्चेति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.