Table of Contents

<<6-3-4 —- 6-3-6>>

6-3-5 आज्ञायिनि च

प्रथमावृत्तिः

TBD.

काशिका

आज्ञायिन्युत्तारपदे मनसः उत्तरस्य तृतीयायाः अलुग् भवति। मनसा अज्ञातुं शीलमस्य मनसाज्ञायी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

947 आज्ञायिनि च। मनस इत्येवेति। अनुवर्तत एवेत्यर्थः। मनसस्तृतीयाया अलुक् स्यादाज्ञायिनि परे इत्यर्थः। असंज्ञार्थमिदम्। ज्ञातुमिति। प्रेरयितुमित्यर्थः। मनसाज्ञायीति। `सुप्यजातौ' इति णिनिः। `आतो युक्चिण्कृतो'रिति युक्। अत्र सूत्रभाष्ये `आत्मनश्च पूरणे उपसङ्ख्यान'मिति वार्तिकं पठितम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.