Table of Contents

<<6-3-47 —- 6-3-49>>

6-3-48 त्रेस् त्रयः

प्रथमावृत्तिः

TBD.

काशिका

त्रि इत्येतस्य त्रयसित्ययम् आदेशो भवति सङ्ख्यायाम् अबहुव्रीह्यशीत्योः। त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत। सङ्ख्यायाम् इत्येव, त्रैमातुरः। अबहुव्रीह्यशीत्योः इत्येव, त्रिदशाः। त्र्यशीतिः। प्राक्शतातित्येव, त्रिशतम्। त्रिसहस्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

964 त्रयोदश. त्रयोविंशतिः. त्रयस्त्रिंशत्..

बालमनोरमा

799 त्रेस्त्रयः। सन्धिवेलादिषु त्रयोदशीति पाठात्सकारान्तोऽयमादेश इत्याह– त्रयस्स्यादिति। पूर्व विषये इति। प्राक्?शतात्सङ्ख्याशब्दे उत्तरपदे परतो, न तु बहुव्रीह्रशीत्योरित्यर्थः। त्रयोदशेति। त्रयश्च दश चेति, त्र्यधिका दशेति वा विग्रहः। सुब्लुकि त्रिशब्दस्य त्रयस्, रुत्वम्, उत्वम्, आद्गुणः। एवं त्रयोविंशतिरित्यपि। त्रिदशा इति। त्रिरावृत्ता दशेत्यर्थः। `बहुव्रीहौ सह्ख्येये डच्' इति डच्। नन्वत्र त्रिरित्यस्य `सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कुत्वसुच्' `द्वित्रिचतुभ्र्यः सुच्' इति सुजन्तत्वात्समासेऽपि सुचः श्रवणापत्तिरित्यत आह– सुजर्थे बहुव्रीहिरिति। सुजर्थे क्रियाभ्यावृत्तौ लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्र `सङ्ख्ययाव्यये'ति बहुव्रीहिर्न तु सुजन्तस्येत्यर्थः। त्र्यशीतिरिति। त्रयश्चाऽशीतिश्चेति समाहारद्वन्द्वः। स्त्रीत्वं लोकात्। त्र्यधिकाऽशीतिरिति वा। त्रिशतमिति। त्र्यश्च शतं चेति समाहारद्वन्द्वः। स्त्रीत्वं लोकात्। त्र्यधिकाऽसीतिरिति वा। त्रिशतमिति। त्रयश्च शतं चेति समाहारद्वन्द्वः, त्र्यधिकं शतिमिति वा। एवं त्रिसहरुआमित्यपि।

तत्त्वबोधिनी

704 त्रेस्त्रयः। सन्धिवेलादिषु त्रयोदशीति पाठात्सान्तोऽयमादेशः इति ध्वनयन्नाह– -त्रयस्स्यादिति। सुजर्थे बहुव्रीहिरिति। `संङ्ख्यायाव्यये'त्यादिने ति शेषः। षोडन्निति। षड् दन्ता अस्य षोडन्। `वयसि दन्तस्ये'ति दत्रादेशः।

Satishji's सूत्र-सूचिः

TBD.