Table of Contents

<<6-3-46 —- 6-3-48>>

6-3-47 द्व्यष्टनः सङ्ख्यायाम् अबहुव्रीह्यशीत्योः

प्रथमावृत्तिः

TBD.

काशिका

द्वि अष्टनित्येतयोः आकारादेशो भवति सङ्ख्यायाम् उत्तरपदे अबहुव्रीह्यशीत्योः। द्वादश। द्वाविंशतिः। द्वात्रिंशत्। अष्टादश। अष्टाविंशतिः। अष्टात्रिंशत्। द्व्यष्टनः इति किम्? पञ्चदश। सङ्ख्यायाम् इति किम्? द्वैमातुरः। आष्टमातुरः। अबहुव्रीह्यशित्योः इति किम्? द्वित्राः। त्रिदशाः। द्व्यशीतिः। प्राक् शतादिति वक्तव्यम्। इह मा भूत्, द्विशतम्। द्विसहस्रम्। अश्टशतम्। अष्टसहस्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

963 आत्स्यात्. द्वौ च दश च द्वादश. अष्टाविंशतिः..

बालमनोरमा

798 द्व्यष्टनः। शेषपूरणेन सूत्रं व्याचष्टे–आत्स्यादिति। द्विशब्दस्य अष्टन्शब्दस्य च सङ्ख्यावाचके उत्तरपदे परे आत्स्यान्न तु बहुव्रीह्रशीत्योरित्यर्थः। द्विशब्दस्योदाहरति–द्वादशेति। द्वौ च एकश्च द्व्येकाः, द्व्यधिक एकः द्व्येक इत्यादौ तु नास्ति, `एकादिनवान्तानां परस्परं द्वन्द्वतत्पुरुषौ न स्तः' इति `चार्थे इति सूत्रे भाष्ये ध्वनितत्वादिति शब्देन्दुशेखरे स्थितम्। द्वाविंशतिरिति। द्वौ च विंशतिश्चेति समाहारद्वन्द्वः। `स नपुंसक'मिति क्लीबत्वं तु न, किंतु लोकात् स्त्रीत्वम्। इतरेतरयोगस्तु न, अनभिधानात्। द्व्यधिका विंशतिरिति तत्पुरुषो वा। अथाऽष्टस्योदाहरति–अष्टादशेति। अष्टौ च दश चेति द्वन्द्वः। अष्टाधिका दशेति वा। अष्टाविंशतिरिति। अष्टौ च विशतिश्चेति समाहारद्वन्द्वः। स्त्रीत्वं लोकात्। अष्टाधिका विंशतिरिति वा। द्वित्रा इति। द्वौ वा त्रयो वेति विग्रहः। `सङ्ख्याव्यये'ति बहुव्रीहिः। `बहुव्रीहौ संख्येये ड'जिति डच्। बहुव्रीहित्वादत्र द्विशब्दस्य आत्त्वं न। द्व्यशीतिरिति। द्वौ चाओशीतिश्चेति समाहारद्वन्द्वः। स्त्रीत्वं लोकात्। द्व्यधिका अशीतिरिति वा। अत्राशीतिपरकत्वाद्द्विशब्दस्याऽऽत्त्वं न। `द्व्यष्टनः सङ्ख्याया'मित्येतच्छतप्रभृतिसङ्ख्याशब्दे परे न भवतीति वक्तव्यमित्यर्थः। द्विशतमिति। द्वौ च शतं चेति समाहारद्वन्द्वः। द्व्यधिकं शतिमिति वा। एवं द्विसहरुआमित्यत्रापि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.