TBD.
समानाधिकरणे उत्तरपदे जातीये च प्रत्यये परतो महतः आकारादेशो भवति। महादेवः। महाब्राह्मणः। महाबाहुः। महाबलः। जातीये महाजातीयः। समानाधिकरणजातीययोः इति किम्? महतः पुत्रः महत्पुत्रः। लक्षणोक्तत्वादेव अत्र न भविष्यति इति चेद् बहुव्रीहावपि न स्याद् महाबाहुः इति। तदर्थं समानाधिकरणग्रहणं वक्तव्यम्। अमहान् महान् सम्पन्नो महद्भूतश्चन्द्रमाः इत्यत्र गौणत्वान् महदर्थस्य न भवत्यात्वम्। महदात्वे घासकरविशिष्टेषु उपसङ्ख्यानं पुंवद्वचनं च असमानाधिकरणार्थम्। महत्याः घासः महाघासः। महत्याः करः महाकरः। महत्याः विशिष्टः महाविशिष्टः। अष्टनः कपाले हविष्युपसङ्ख्यानम्। अष्टकपालं चरुं निर्वपेत्। हविषि इति किम्? अष्टकपालं ब्राह्मणस्य। गवि च युक्ते ऽष्टन उपसङ्ख्यानं कर्तव्यम्। अष्टागवेन शकटेन। युक्ते इति किम्? अष्टगवं ब्राह्मणस्य तपरकरणं विस्पष्टार्थम्।
TBD.
962 महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे. महाराजः. प्रकारवचने जातीयर्. महाप्रकारो महाजातीयः..
797 अथ महत्पूर्वस्य टज्विकल्पमुदाहरिष्यन्विशेषमाह–आन्महतः। `अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थमिदं सूत्रम्। `उत्तरपदे' इत्यनुवृत्तंसमानाधिकरणपदेऽन्वेति, न तु जातीये इति, तस्य प्रत्ययत्वात्। तदाह–महत आत्त्वमित्यादिना। महाब्राहृ इति। महांश्चासौ ब्राहृआ चेति विग्रहः। `सन्मह'दित्यादिना समासः। आत्त्वम्। सवर्णदीर्घः। `कुमहद्भ्या'मिति टच्। टिलोपः `परवल्लिङ्ग'मिति पुंस्त्वम्। महाब्राहृएति। टजभावे आत्वे रूपम्। अथ प्रसङ्गादुक्तमात्त्वविधिं प्रपञ्चयिष्यन्समानाधिकरणे पुनरुदाहरति–महादेव इति। जातीये उदाहरति–महाजातीय इति। महत्सदृश इत्यर्थः। `प्रकारवचने जातीयर्'। आत्त्वं सवर्णदीर्घः। समानाधिकरणे किमिति। `आन्महतो जातीये चे'त्येवास्तु, चकारादुत्तरपदसमुच्चये सति महतद आत्त्वं स्यादुत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः, किं समानाधिकरणेनेति प्रश्नः। महत्सेवेति। अत्र षष्ठीसमासे आत्त्वनिवृत्त्यर्थं समानाधिकरणग्रहणमिति भावः। ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्टानुच्चार्य सामान्यशास्त्रत एव निर्बर्तितत्वात्। `सन्मह'दित्ययं समासस्तु सन्महदादिशब्दं समस्यमान#ं विशिष्योच्चार्या विहितत्वात्प्रतिपदोक्तः। ततश्च लक्षणप्रतिपदोक्तपरिभाषया `आन्महतो जातीये चे'त्यत्र `सन्मह'दिति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससंभवाद्व्यर्थमेव समानाधिकरणग्रहणमिति शङ्कते–लाक्षणिकमित्यादिना। परिहरति–महाबाहुर्न स्यादिति। महान्तौ बाहू यस्येति विग्रहः। अस्य समासस्य `अनेकमन्यपदार्थे' इति सामान्यविहितत्वात्प्रतिपदोक्त्वाऽभावात्तदुत्तरपदे परे आत्त्वं न स्यादतः समानाधिकरणग्रहणमित्यर्थः। ननु कृतेऽपि समानाधिकरणग्रहणे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तेर्दुर्वारत्वान्महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह–तस्मादिति। तच्छब्दार्थमाह–समानाधिकरणग्रहणसामथ्र्यादिति। एवं च लक्षणप्रतिपदोक्तपरिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थं समानाधिकरणग्रहणमिति भावः। नच सुमहान्तौ बाहू यस्य स सुमहाबाहुरित्यत्र कथमात्त्वम् ?। आत्त्वविधेः पदाङ्गाधिकारस्थत्वाऽभावेन तदन्तविध्यभावादिति वाच्यम्, उत्तरपदाक्षिप्तपूर्वपदस्य महता विशेषणे सति तदन्तविधिलाभात्। `परममहत्वपिरमाणवा'नित्यत्र तु महतः परिमाणं महत्परिमाणं, परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति द#इक्। ननु `आन्महतः' इत्यत्र महत एव ग्रहणात् `द्व्यष्टनः' इत्युत्तरसूत्रे द्व्यष्टनोरेव ग्रहणादेकादशेत्यत्र कथमात्त्वमित्यत आह–योगविभागादात्त्वमिति। योगविभागस्य भाष्याऽदृष्टत्वादाह–निर्देशाद्वेति। एकादशेति। एकश्चदश चेति द्वन्द्वः। एकाधिका दशेति वा। `आन्महत' इत्यत्र लिङ्गविशिष्टपरिभाषया महतीशब्दस्यापि जातीयप्र्रत्यये परे महताजातीयेति स्यादित्यत आह–महतीशब्दस्येति। नच परत्वात्पुंवत्त्वं बाधित्वा आत्वं स्यादिति वाच्यम्, `आन्महतः' इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति ङ्याप्सूत्रे भाष्ये उक्तत्वादिति भावः। महदात्त्वे इति। `घास' `कर' `विशिष्ट'-एषु परतो महत आत्त्वं पुंवत्त्वं च वक्तव्यमित्यर्थः। ननु `आन्महतः' इत्यात्त्वे `पुंवत्कर्मधारये'ति पुंवत्त्वे च सिद्धे किमर्थमिदमित्यत आह– असामानाधिकरण्यार्थमिति। महाकर इति। महतो महत्या वा कर इत्यर्थः। महाविशिष्ट इति। महतो महत्या वा विशिष्टः। अधिक इत्यर्थः। \र्\नष्टन इति। कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः। अष्टाकपाल इति। अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे तद्धितार्थे द्विगुः। `सस्कृतं भक्षाः' इत्यण्। `द्विगोर्लुगनपत्ये' इति लुक्। आत्त्वं। सवर्णदीर्घः। वार्तिकमिदम्। तत्सूचयितुमाह–वक्तव्यमित्यर्थ इति। अष्टागवं शकटमिति। अष्टौ गावो यस्येति बहुव्रीहिः। आत्त्वं, सवर्णदीर्घः। अष्टभिर्गोभिर्युक्तमित्यर्थः। ननु `गोरतद्धितलुकी'ति टज्विधेस्तत्पुरुषमात्रविषयत्वादष्टागविमिति कथमित्यत आह– अच्प्रत्ययन्ववेत्यत्रेति। तत्पुरुषत्वेऽष्टगवशब्दष्टजन्त एवेत्याह–अष्टानामिति। तथा च समाहारद्विगोस्तत्पुरुषत्वा `गोरतद्धितलुकी'ति टच्सुलभ इत्यर्थः। नन्वष्टानां गवां समाहार इत्यर्थे शकटे कथमन्वयः, युक्तार्थवृत्तित्वाऽभावात्, कतं वा आत्त्वमित्य आह–तद्युक्तत्वादिति। समाहाद्लिगुरूपतत्पुरुषाट्टचि व्युत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिर्गोभिर्युक्ते वर्तमानस्य आत्त्वमित्यर्थः।
702 आन्महतः। तकार उच्चारणार्थो, न तु सर्वादेशार्त इत्याह—आकारोऽन्तादेशः स्यादिति। इहोत्तरपदाऽधिकारे पूर्वपदमाक्षिप्यते। तच्च महता विशेषितमिति तदन्तविधिर्लभ्यते। `ग्रहणवता'इति निषेधस्तु प्रत्ययविधिविषय इत्युक्तत्वात्। तेन महाबाहुवदतिमहाबाहुरिति प्रयोगो भवति। `परममहत्परिमाण'मित्यत्र तु परममहतो द्रव्यस्य परिमाणमिति षष्ठीतत्पुरुषोऽभ्यु पगम्यत इति न तत्राऽऽत्वप्रसक्तिरिति वृद्धाः। यत्तु वद्र्धमानेनोक्तम्—`इष्टकेषीकामालानामित्यत्र तदन्तविध्युपसङ्ख्यानसमाथ्र्यादुत्तरपदाधिकारे तदन्तविधिर्नास्ति, तेन परममहत आत्वं ने'ति, तद्भाष्यकैयटविरुद्धम्। तथाहि–`येन विधि'रिति सूत्रे पदाधिकारे प्रयोजनमिष्टकचितं पक्वेष्टकचितमिति भाष्ये उदाह्मतं, कैयटेन च पदशब्देन उत्तरपदं गृह्रत इति व्याख्यातम्। एतदेवाऽर्थतः काशिकायामुपनिबद्दं न तु ` इष्टकेषीके'त्यत्र कात्यायनोक्तमुपसङ्ख्यानमस्ति। ननु प्रतिपदोक्तसमासे यदुत्तरपदं तस्मिन्नेव परे आत्वं स्यान्नन्यत्रेति किमनेन समानाधैकरणग्रहणेनेत्यत आह– महाबाहुरिति। बहुव्रीहिरयम्, स च सामान्यशास्त्रनिर्वृत्तत्वाल्लाक्षणिक इति भावः। अष्टनः कपाल इति। कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्वं वक्तव्यमित्यर्थः।\र्\नष्टाकपाल इति। `संस्कृतं भक्षाः' इत्यणः `द्विगोर्लुगनपत्ये'इति लुक्। `अध्यर्धपूर्वे'त्यणो लुगिति केषांचिद्व्याख्यानं तु प्रामादिकं, `संस्कृत'मित्यणोऽनाहीयत्वात्।
TBD.