Table of Contents

<<6-3-44 —- 6-3-46>>

6-3-45 उगितश् च

प्रथमावृत्तिः

TBD.

काशिका

उगितश्च परस्याः नद्याः घादिषु अन्यतरस्याम् ह्रस्वो भवति। श्रेयसितरा, श्रेयसीतरा, श्रेयस्तरा। विदुषितरा, विदुषीतरा, विद्वत्तरा। पुंवद्भावो ऽप्यत्र पक्षे वक्तव्यः। प्रकर्षयोगात् प्राक् स्त्रीत्वस्या विवक्षितत्वाद् वा सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

972 उगितश्च। विदुषितरेति। `विदेः शतुर्वसुरिति वसुप्रत्ययः। उगिदन्तमिदम्। अनेकाच्त्वान्नद्याः शेषत्वस्याऽप्राप्तेरिदमिति भावः। विद्वत्तरेति। पुंवत्त्वे ङीपो निवृत्तौ विद्वत्तरेति रूपमित्यर्थः। तन्निर्मूलमिति। पुंवत्त्वस्य दुर्वारत्वादित्यर्थः। `विद्वच्छ्रेयसो पुंवत्त्वं न वक्तव्य'मिति वृत्तिः। परन्तु वचनमिदं भाष्याऽदृष्टत्वादुपेक्ष्यमिति भावः। अत्रोगितः परा या नदीति मूलं वर्णयोरेव नदीसंज्ञेति मताभिप्रायकम्।

तत्त्वबोधिनी

828 उगितः परा या नदीति। ईदूतोः केवलयोरपि नदीसंज्ञेत्याश्रित्येदमुक्तम्। विदुषितरेति। उगितश्चेति ङीपि वसोः संप्रसारणम्। वृत्त्यादिष्विति। प्रक्रियातद्व्यख्यानानि चादिशब्दग्राह्राणि।

Satishji's सूत्र-सूचिः

TBD.