Table of Contents

<<6-3-43 —- 6-3-45>>

6-3-44 नद्याः शेषस्य अन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्याम्। कश्च शेषः? अङी च या नदी ङ्यन्तं च यदेकच्। ब्रहमबन्धूतरा, ब्रहमबन्धुतरा। वीरबन्धूतरा। वीरबन्धुतरा। स्त्रितरा, स्त्रीतरा। स्त्रितमा, स्त्रीतमा। कृन्नद्याः प्रतिषेधो वक्तव्यः। लक्ष्मीतरा। तन्त्रीतरा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

971 नद्याः शेषस्या। उक्तादन्यः शेषः। `ङ्यन्तस्यानेकाच' इति पूर्वसूत्रे स्थितं, तदन्यत्वं च अनेकाचो ङ्यन्तत्वाऽभावे ङ्यन्तस्यानेकाच्त्वाभावेऽपि संभवति। तदाह– अङ्यन्तनद्या ङ्यन्तस्यैकाचश्चेति। `ऊङुतः' इति ब्राहृबन्धुशब्द ऊङन्तः। भाषितपुंस्कस्येति तु नैहानुवर्तत इत्यबिप्रेत्योदाहरति–स्त्रितरेति।

लक्ष्मीतरेति। `लक्षेर्मुट् च' इति औणादिके ईप्रत्यये मुडागमे च लक्ष्मीशब्दः कृदन्त इति भावः।

तत्त्वबोधिनी

827 उक्ताद्नयशेषः, स च द्विदेत्याह– अङ्यन्तेति। उपलक्षणमेतत्। भाषित्पुंस्केत्यपि नेह संबध्यत इत्याशयेनाह– स्त्रीतरेति।

Satishji's सूत्र-सूचिः

TBD.