Table of Contents

<<6-3-39 —- 6-3-41>>

6-3-40 स्वाङ्गाच् च इतो ऽमानिनि

प्रथमावृत्तिः

TBD.

काशिका

स्वाङ्गादुत्तरो य ईकारः तदन्तायाः स्त्रियाः न पुंवद् भवति अमानिनि परतः। दीर्घकेशीभार्यः। श्लक्ष्णकेशीभार्यः। दीर्घकेशीपाशा। श्लक्ष्णकेशीपाशा। दीर्घकेशीयते। श्लक्ष्णकेशीयते। स्वाङ्गातिति किम्? पटुभार्यः। ईतः इति किम्? अकेशभार्यः। अमानिनि इति किम्? दीर्घकेशमानिनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

831 स्वाङ्गाच्चेतः। `ईत' इति च्छेदः। तदाह–`स्वाङ्गाद्य ईकार इति। सुकेशीभार्य इति। `सु=शोभनाः केशा यस्यः सा सुकेशी। `स्वाङ्गाच्चोपसर्जनात्' इति ङीष्। `स्त्रियाः पुंव'दिति प्राप्तस्य निषेधः। पटुभार्य इति। पट्वी भार्या यस्येति विग्रहः। पटुत्वस्य अस्वाङ्गत्वान्न पुंवत्त्वनिषेधः। `किंतु पुवत्त्वे `वोतो गुणवचना'दिति ङीषो निवृत्तिरिति भावः। अकेशभार्य इति। अविद्यमानाः केशा यस्याः सा अकेशा। `नञोऽस्त्यर्थाना'मिति बहुव्रीहिः, विद्यमानशब्दस्य लोपश्च। स्वाङ्गत्वेऽपि न ङीष्, `सहनञ्विद्यमाने'ति निषेधात्। अतष्टावेव। अकेशा भार्या यस्येति विग्रहः। स्वाङ्गत्वेऽपि ईकाराऽभावान्न पुंवत्त्वनिषेधः। किंतु पुंवत्त्वे टापो निवृत्तिरिति भावः। \र्\नमानिनीति। `स्वाङ्गच्चे'ति निषेधो मानिन्शब्देपरतो न भवतीति वक्तव्यमित्यर्थः। सुकेशमानिनीति। सुकेर्शीमन्यत इत्यर्थे `मनश्चे'ति णिनि, उपधावृद्धिः, उपपदसमासः, सुब्लुक्, पुंवत्त्वे ङीषो निवृत्तिरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.