Table of Contents

<<6-3-40 —- 6-3-42>>

6-3-41 जातेश् च

प्रथमावृत्तिः

TBD.

काशिका

जातेश्च स्त्रियाः न पुंवद् भवति अमानिनि परतः। कठीभार्यः। बह्वृचिभार्यः। कठीपाशा। बह्वृचीपाशा। कठीयते। बह्वृचीयते। अमानिनि इत्येव, कठमानिनी। बह्वृचमानिनीइ। अयं प्रतिषेध औपसङ्ख्यानिकस्य पुंवद्भावस्य न इष्यते। हस्तिनीनां समूहो हास्तिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

832 जातेश्च। `ईत' इति अस्वरितत्वान्नानुवर्तत इत्यभिप्रेत्याह–जातेः परोः यः स्त्रीप्रत्यय इति। शूद्राभार्य इति। `शूद्रा चामहत्पूर्वे'ति जातिलक्षणङीषोऽपवादष्टाप्। पुंवत्त्वनिषेधान्न टापो निवृत्तिः। ब्राआहृणीभार्य इति। पुंवत्त्वनिषेदान्न शाङ्र्गरवादिङीनो निवृत्तिः। ननु हस्तिनीनां समूहो हास्तिकमित्यत्र `अचित्तहस्ती'ति ठकि हस्तिनीशब्दस्य `भस्याऽढे' इति कथं पुंवत्त्वं `जातेश्चे'ति निषेधादित्यत आह–सौत्रस्यैवायं निषेध इति। सूत्रविहितस्येत्यर्थः। `भस्याऽढे' इति तु वार्तिकमिति भावः। एतच्च `न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम्।

तत्त्वबोधिनी

729 जातेश्च। यद्यत्र `जातेरित्येव विहित' इति व्याख्यायेत तर्हि हास्तिकमित्युदाहरणे `औपसङ्ख्यामिकस्य नायं निषेद'इति भाष्योक्तिर्न सङ्गच्छेत। हस्तिन्?शब्दात् `जाते'रिति ङीष्न विहितः, अदन्तत्वाऽभावात्, किं तु `ऋन्नेभ्यः'इति ङीब्विहित इति पुंवद्भावनिषेधस्याऽप्रसक्तेरत आह–जातेः पर इति। एवं च `हस्तनीभार्यः', इत्यादावपि निषेधः सिध्यतीति भावः।

Satishji's सूत्र-सूचिः

TBD.