Table of Contents

<<6-3-37 —- 6-3-39>>

6-3-38 संज्ञापूरण्योश् च

प्रथमावृत्तिः

TBD.

काशिका

संज्ञायाः पूरण्याश्च स्त्रियाः पुंवद्भावो न भवति। दत्तभार्यः। गुप्ताभार्यः। दत्तापाशा। गुप्तापाशा। दत्तायते। गुप्तायते। दत्तामानिनी। गुप्तामानिनी। पुरण्याः पञ्चमीभार्यः। दशमीभार्यः। पञ्चमीपाशा। दशमीपाशा। पञ्चमीयते। दशमीयते। पञ्चमीमानिनी। दशमीमानिनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

829 ननु दत्ताशब्दस्य संज्ञात्वेन एकद्रव्यनिवेशितया भाषितपुंस्कत्वाऽभावात् `स्त्रियाः पुंव'दित्यस्य प्रसक्तेरेवाऽभावा\उfffद्त्क तन्निषेधेनेत्यत आह– दानक्रियानिमित्त इति। दत्तशब्दोऽयं डित्थादिशब्दवन्न, किंतु दानक्रियां पुरस्कृत्यैव स्त्रियां पुंसि च संज्ञाभूतः प्रवृत्तः, अतस्तस्य भाषिपुंस्कत्वात्पुंवत्त्वे प्राप्ते निषेधोऽयमित्यर्थः। पूरण्याः पुंवत्त्वनिषेधमुदाहरति–पञ्चमीभार्य इति। पञ्चमी भार्या यस्येति विग्रहः। अत्र `स्त्रियाः पुंव'दिति प्राप्तं निषिध्यते। पञ्चमीपाशेति। निन्दिता पञ्चमीत्यर्थः। `याप्ये पाशप्'। अत्र तसिलादिषु' इति प्राप्तं पुंवत्वं निषिध्यते।

तत्त्वबोधिनी

727 संज्ञापूरण्योश्च। यत्तु `दत्तायते'इति क्यङन्तमपि वृत्त्यादिषूदाह्मतं, तत्तु विशेषाऽभावादिहोपेक्षितम्। पञ्चमीपाशेति। `याप्ये पाशव्'। `तसिलादिषु'इति प्राप्तिः।

Satishji's सूत्र-सूचिः

TBD.