Table of Contents

<<6-3-35 —- 6-3-37>>

6-3-36 क्यङ्मानिनोश् च

प्रथमावृत्तिः

TBD.

काशिका

क्यङि परतो मानिनि च स्तिर्या भाषितपुंस्कादनूङ् पुंवत् भवति। एनी एतायते। श्येनीश्येतायते। मानिनि दर्शनीयमानी अयमस्याः। दर्शनीयमानिनी इयमस्याः। मानिनो ग्रहणम् अस्त्र्यर्थम् असमानाधिकरणार्थं च। इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनी इति पूर्वेण एव सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

827 क्यङ्मानिनोश्च। एतयोरिति। क्यङि मानिनि च उत्तरपदे परत इत्यर्थः। एनोवेति। एता-चित्रवर्णा। `चित्रं किर्मीरकल्माषशबलैताश्च कर्बु`रे' इत्यमरः। एतशब्दः \उfffदोतपर्याय इति याज्ञिकाः। `वर्णादनुदात्ते'ति ङीब्नकारश्च। `उपमानादाचारे' इत्यनुवर्तमाने `कर्तुः क्यङ् सलोपश्चे'ति एनीशब्दात्क्यङि पुंवत्त्वे ङीब्नत्वयोर्निवृत्तौ, `अकृत्सार्वधातुकयो'रिति दीर्घे `एतायते' इति रूपमिति भावः। श्येनीवेति। श्येतशब्दः \उfffदोतपर्यायः। `शुक्लशुभ्रसुचि\उfffदोतविशदश्येतपाण्डुराः' इत्यमरः। क्यङादि पूर्ववत्। ननु `स्त्रियाः पुंव'दित्येव मानिनीत्यनुत्तरपदे परतः पुंवत्त्वसिद्धेर्मानिन्ग्रहणं किमर्थमित्याशङ्क्य मानिन्ग्रहणमसमानाधिकरणार्थमस्त्रीलिङ्गार्थ चेत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरति–स्वभिन्नामिति। दर्शनीयमानिनीति। `दर्शनीया'मिति द्वितीयान्ते उपपदे `सुप्यजातौ णिनि'रित्यनुवृत्तौ `मन' इति ण्निप्रत्ययः। उपपदसमासः, सुब्लुक्। असमानाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्त्वे टापो निवृत्तौ `ऋन्नेभ्यः' इति ङीपि दर्शनीयमानिनीति रूपम्। या त्वात्मानमेव दर्शनीयां मन्यते तस्या दर्शनीयायाः `स्त्रियाः पुंव'दित्येव पुंवत्त्वं सिद्धमिति ध्वनयितुं–`स्वभिन्ना'मित्युक्तम्। एकस्या एवं दर्शनीयाया मनधात्वर्थं प्रति कर्मत्वकर्तृत्वसंभवेऽपबि वास्तवाऽभेदेन मानिनीशब्दसमानाधिकरण्यसत्त्वादिति भावः। अथाऽस्त्रीलिङ्गे उत्तरपदे उदाहरति–दर्शनीयामिति। स्त्रियामित्यनन्तरमात्मानमिति शेषः आत्मानं यो दर्शनीयां स्त्रियं मन्यते स दर्शनीयमानी चैत्र इत्यन्वयः। अत्र उत्तरपदवाच्यस्य मानिनो वस्तुतो दर्शनीयस्त्रीभेदेऽपि आरोपिततदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुंलिङ्गत्वात्तस्मिन् परे पुंवत्त्वं न प्राप्तमित्यनेन तद्विधिरिति भावः।

तत्त्वबोधिनी

725 क्यङ्भा। एतयते इत्यादि। `कर्तुः क्यङ् सलोपश्च'।क्यङि पुंवद्भावे कृते एतश्येतयोः `अकृत्सार्वे'ति दीर्घः। मानिन्?ग्रहणमसमानाधिकरणार्थमस्त्र्यर्थं चेत्याशयेन यथाक्रममुदाहरति–स्वाभिन्नामित्यादिना। दर्शनीयमानिनीति। `मनः'इति णिनिः। नान्तत्वान्ङीप्। या त्वात्मानमेव दर्शनीयां मन्यते तत्र `स्त्रियाः पुंव'दित्येव सिद्धम्। एकस्या अपि ईप्सिततमत्वव्यापाराश्रयत्वविवक्षाभेदेन कर्मकर्तृत्वयोः सत्त्वेऽपि वास्तवाऽभेदेन सामानाधिकरण्याऽविधातादिति भावः।

Satishji's सूत्र-सूचिः

TBD.