Table of Contents

<<6-3-33 —- 6-3-35>>

6-3-34 स्त्रियाः पुंवद्भाषीतपुंस्कादनूङ् समानाधिकरणे स्त्रियाम्

अपूरणीप्रियादिषु

प्रथमावृत्तिः

TBD.

काशिका

भाषितः पुमान् येन समानायामाकृतावेकस्मिन् प्रवृत्तिनिमित्ते स भाषितपुंस्कः शब्दः। तदेतदेवं कथं भवति? भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमिते स भाषितपुंस्कशब्देन उच्यते, तस्य प्रतिपादको यः शब्दः सो ऽपि भासितपुंस्कः ऊङो ऽभावः अनूङ्, भाषितपुंस्कादनूङ् यस्मिन् स्त्रीशब्दे स भाषितपुंस्कादनूङ् स्त्रीशब्दः। बहुव्रीहिरयम्, अलुग् निपातनात् पञ्चम्याः। तस्य भाषितपुंस्काऽदनूङः स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवति समानाधिकरणे उत्तरपदे स्त्रीलिङ्गे पूरणीप्रियादिवर्जिते। दर्शनीयभार्यः। शलक्ष्णचूडः। दीर्घजङ्घः। स्त्रिया इति किम्? ग्रामणि ब्राह्मणकुलं दृष्टिरस्य ग्रामणिदृष्टिः। भाषितपुंस्कातिति किम्? खट्वाभार्यः। समानायामाकृतौ इति किम्? द्रोणीभार्यः। कथं गर्भिभार्यः, प्रसूतभार्यः, प्रजातभार्यः इति? कर्तव्यो ऽत्र यत्नः। अनूङ इति किम्? ब्रह्मबन्धूभार्यः। समानाधिकरणे इति किम्? कल्याणा माता कल्यणीमाता। स्त्रियाम् इति किम्? कल्याणी प्रधानम् एषा कल्याणीप्रधाना इमे। अपूरणी इति किम्? कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः। कल्याणीदशमाः। प्रधानपूरणीग्रहणं कर्तव्यम्। इह मा भूत्, कल्याणीपञ्चमीकः पक्षः इति। अप् पूरणीप्रमाण्योः 5-4-116 इत्यत्र अपि प्रधानपूरणीग्रहणम् एव इत्यप्प्रत्ययो न भवति। अप्रियादिषु इति किम्? कल्याणीप्रियः। प्रिया। मनोज्ञा। कल्याणी। सुभगा। दुर्भगा। भक्ति। सचिवा। अम्बा। कान्ता। क्षान्ता। समा। चपला। दुहिता। वामा। प्रियादिः। दृढभक्तिः इत्येवम् आदिषु स्त्रीपूर्वपदस्य अविवक्षित्वात् सिद्धम् इति समाधेयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

972 उक्तपुंस्कादनूङ् ऊङोऽभावोऽस्यामिति बहुव्रीहिः. निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक्. तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः. गोस्त्रियोरिति ह्रस्वः. चित्रगुः. रूपवद्भार्यः. अनूङ् किम्? वामोरूभार्यः.. पूरण्यां तु -.

बालमनोरमा

821 स्त्रियाः पुंवत्। `भाषित पुंस्कादनू'ङिति समस्तमेकपदं `स्त्रिया' इति षष्ठ\उfffद्न्तस्य विशेषणमित्यभिप्रेत्य व्याचष्टे–भाषितपुंस्कादिति। `अनू' ङित्यस्य व्याख्यानम्-ऊङोऽभाव इति। अर्थाभावेऽव्ययीभावः, नञ्तत्पुरुषो वा। `भाषितपुंस्का'दिति दिग्योगे पञ्चमी। `पर' इति प्रथमान्तमध्याहार्यम्। तथाच भाषितपुंस्कात् पराऽनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति। ननु समासे सति पञ्चम्या सुक्प्रसङ्ग इत्यत आह–निपातनादिति। इदमुपलक्षणम्। निपातनादप्रथमान्तस्यापि बहुव्रीहिः, परशब्दलोपश्चेत्यपि बोध्यम्। यद्वा अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमी। नन्वेवमपि `स्त्रिया' इति षष्ठ\उfffद्न्तस्य `भाषितपुंस्कादनू'ङिति यदि विशेषणं स्यात्तर्हि भाषितपुंस्कादनूङ' इति षष्ठी श्रूयेतेत्यत आह–षष्ठ\उfffदाश्च लुगिति। `निपातना'दित्यनुषज्यते। भाषितः पुमान् येन तद्भाषितपुंस्कं, तदस्यास्तीति अर्शाअद्यच्। पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत्। `तृतीयादिषु भाषितपुंस्क'मित्यत्र व्याख्यातमेतत्। तदाह–तुल्ये प्रवृत्तिनिमित्ते इति। स्त्रीवाचकस्य शब्दस्येति। स्त्रीलिङ्गस्येत्यर्थः। `स्त्रिया' इति षष्ठ\उfffद्न्तं न स्त्रीप्रत्ययपरमिति भावः। `पुंव'दिति रूपातिदेशः। पुंस इव पुंवदिति षष्ठ\उfffद्न्ताद्वतिः। तदाह–पुंवाचकस्येव रूपमिति। `स्त्रिया'मिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं किन्तु स्त्रीलिङ्गपरम्। तच्च `अलुगुत्तरपदे' इत्यधिकृते उत्तरपदेऽन्वेति। तदाह–स्त्रीलिङ्गे उत्तरपदे इति। `अपूरणीप्रियादि\उfffदिआ'त्येतद्व्याचश्टे- न तु पूरण्यां प्रियादौ च परत इति। पूरणीति स्त्रीलिङ्गनिर्देशात्स्त्रीलिङ्गः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयम्। तुल्ये प्रवृत्तिनिमित्ते इति कम् ?। कुटीभार्यः। अत्र पुंवत्त्वं न भवति, कुटीशब्दो घटे पुंलिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदात्। `स्त्रीप्रत्ययः पुंवत्स्या'दित्युक्ते तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत्। ततश्च पट्वी भार्या यस्य स पटुभार्य इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लोपे तस्य `अचः परस्मिन्' इति स्थानिवत्त्वादुकारस्य यण्स्यात्। ह्यस्व इति। चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया, विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति, चित्रगोशब्दे ओकारस्य `गोस्त्रियो'रित्युकारो ह्रस्व इत्यर्थः। ननु चित्रा गाव इति लोकिकसमासाभ्युपगमे सुपो लुकः प्राक् चित्रा अस इत्यत्र पूर्वसवर्णदीर्घे, गो अस् इत्यत्र पूर्वरूपे च एकादेशे कृते तस्य परादिवत्त्वेन असो लुकि चित्रशब्दे अकारो न श्रूयेत, चित्रगुरित्यत्र उकारश्च न श्रूयेत, पूर्वान्तवत्त्वे तु परिशिष्टस्य सकारमात्रस्य सुप्त्वाऽभावाल्लुक् न स्यादित्यत आह–चित्रा अस् इति। गोशब्दस्य स्त्रीलिङ्गत्वात्तद्विशेषणत्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः। `प्रत्ययोत्तरपदयोश्चे'ति सूत्रभाष्यरीत्या `अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते' इति न्यायात्प्रागेव पूर्वसवर्णदीर्घात्सुब्लुगिति भावः। चित्रगुरिति। बहुव्रीहौ ह्यस्वत्वे चित्राशब्दस्य पुंवत्त्वमिति भावः। रूपवद्भार्य इति। रूपवती भार्या यस्येति विग्रहः। अत्र उपसर्जनह्यस्वः। `रूपवती' शब्दस्य पुंवत्त्वम्। ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः, `सुप्सुपे' त्येकत्वस्य विवक्षतत्वादित्यत आह–अनेकोक्तेरिति। शेषग्रहणात्प्रथमान्तमिति लब्धम्। एकस्य प्रथमान्तस्य समासो नोपपद्यते, समास इत्यन्वर्थसंज्ञाविज्ञानात्, ततश्चार्थादनेकं प्रथमान्तमिति सिद्धे पुनरनेकग्रहणाद्द्विबहूनां प्रथमान्तानां बहुव्रीहिरिति भाष्ये स्पष्टमिति भावः। अत्रेति। त्रिपदबहुव्रीहावित्यर्थः। चित्राजरतीगुः जरतीचित्रागुर्वेति। गां प्रतिचित्रात्वस्य जरतीत्वस्य च विशेषणत्वाऽविसेषादन्यतरस्य `सप्तमीविशेषणे बहुव्रीहौ' इति पूर्वनिपात इति भावः। \र्\नेवं दीर्घेति। दीर्घे तन्व्यौ जङ्घे यस्येति विग्रहः। उभयत्रापि पूर्वमध्यपदयोः पुंवत्त्वमाशह्ख्याह–त्रिपदे इति। उत्तरपदस्येति। समासचरमावयवपदस्य उत्तरपदत्वात्ततृतीयमेव पदमत्रोत्तरपदं वाच्यम्। तत्परकत्वं च मध्यमपदस्यैव, नतु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधानादित्यर्थः। ननु तर्हि मद्यमपदस्य पुंवत्त्वं दुर्वारम्, उत्तरपदपरकत्वसत्त्वादित्यत आह–द्वितीयमपि न पुंवदिति। पूर्वपदत्वाभावादिति। उत्तरपदेन पूर्वपदमाक्षेपाल्लब्यते। समासप्रथमावयवपदमेव पूर्वपदम्, नतु मध्यमावयवपदमपीति भावः। ननु मध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति। मध्यमपदस्य च प्रथमपदापेक्षया उत्तरपदत्वमस्तीत्यत आह–उत्तरपदशब्दो हीति। रूढ इति। वैयाकरणसमयसिद्ध इत्यर्थः। इति वदन्तीति। एवंप्रकारेण केचिद्वदन्तीत्यन्वयः। तत्र प्रथमपदस्य त्रिपदबहुव्रीहौ नास्ति पुंवत्त्वमिति युज्यते,उत्त्रपदपरकत्वाऽभावात्। मध्यमपदस्य तु पूर्वपदत्वाभावेऽप्यस्त्येव पुंवत्त्वम्, स्त्रिया पुंवदित्यत्र तु पूर्वपदस्याश्रवणात्, अनुवृत्त्यभावाच्च, किन्तु `उत्तरपदे' इत्यनेन पूर्वपदस्य पुंवत्त्वमित्यर्थाद्गम्यत इति वक्तव्यम्। तदपि न सम्भवतीत्यत आह-नेह पूर्वपदमाक्षिप्यत इति। इह=`स्त्रियाः पुंव'दित्यत्र, `उत्तरपदे इत्यनुवृत्तेन पूर्वपदं नाक्षिप्यते, नाऽर्थाद्गम्यत इत्यर्थः। कुत इत्यत आह–आनङृत इत्यत्र यथेति। ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः। तत्र चतुर्णा द्वन्द्वे `होतृपोतृनेष्टोद्गातारः' इत्युपान्त्यस्य नेष्टुरानङुदाह्मतः `समर्थः पदविधि'रित्यत्र भाष्ये। तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरूपान्त्यस्य पूर्वपदत्वाऽभावादानङ् नोपपद्येत। तस्मान्नावश्यमुत्तरपदे विहितं कार्यं पूर्वपदस्यैवेति नियम इत्यर्थः। तेनेति। पूर्वपदाऽनाक्षेपेणेत्यर्थः। उपान्त्यस्येति। अन्त्यस्य समीपमुपान्त्यम्। चरमावयवसमीपवर्तिनो मध्यमस्येत्यर्थः। पुंवदेवेति। `रूप'मिति शेषः। चित्राशब्दस्य न पुंवत्त्वम्, मध्यमेन व्यवधानात्, उत्तरपदपरकत्वाऽभावाच्चेति भावः। इत्यादीति। जकतीचित्रगुः। तन्वीदीर्घजङ्घः। ननु `आनङृतः'इत्यत्र `होतृपोतृनेष्टोद्गातारः' इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः। `स्त्रियाः पुंव'दिति सूत्रे तदनाक्षेपे किं प्रमाणमित्यत आह–अत एवेति। `स्त्रियाः पुंव'दित्यत्रापि पूर्वपदाऽनाक्षेपादित्यर्थः। द्वन्द्वगर्भेऽपी'त्यनन्तरं `बहुव्रीहा'विति शेषः। भाष्यमिति। यद्यपि कृत्स्नभाष्यपरिशोधनायां चिंत्राजरद्गुरित्युदाहरणं भाष्ये क्वापि न दृश्यते, तथापि `चित्राजरद्गु'रितीत्यनन्तरं `प्रयाग'मिति शेषः। `भाष्य'मित्यस्य-`पट्वीमृदुभार्य' इति प्रकृतसूत्रस्थभाष्यमित्यर्थः। `सूचयती'ति शेषः। `स्त्रियाः पुंव'दिति प्रकृतसूत्रभाष्ये पट्व्यौ मृद्व्यौ भार्ये यस्येति द्वन्द्वगर्ङबहुव्रीहौ पट्वीमृदुभार्यं इत्युदाह्मतम्। तत्र पट्वीमृदुशब्दात्मको द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्त्वे, द्वन्द्वस्य परवल्लिङ्गतानियमात्। तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुंवत्त्वं, मध्यमपदेन व्यवधानादुत्तरपदपरकत्वाऽभावात्। मद्यमपदस्यानुत्तरपदत्वादसमानाधिकरणत्वाच्च न तस्मिन्परे पुंवत्त्वसंभवः। मृद्वीशब्दस्य तु केवलस्य भाषुतपुंस्कत्वादुत्तरपदपरकत्वाच्च पुंवत्त्वमिति तदाशयः। `स्त्रियाः पुंव'दित्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वाऽभावेन पुंवत्त्वाऽप्रवृत्तेः तदसङ्गतिः स्पष्टैव। ततश्च `पट्वीमृदुभार्यं' इति भाष्यं `चित्राजरद्गु'रिति प्रयोगं गमयतीत्यर्थः। कर्मधारयेति। जरती चासौ चित्रा चेति कर्मधारयः। `पुंवत्कर्मधारये'ति जरतीशब्दस्य पुंवत्त्वान्ङीपो निवृत्तिः। ततस्च जरच्चित्रा गौर्यस्येति कर्मधारयपूर्वपदत्वे बहुव्रीहौ पूर्वपदस्य जरच्चित्राशब्दस्य `स्त्रियाः पुंव'दिति पुंवत्त्वाट्टापो निवृत्तिरिति भावः। कर्मधारयोत्तरेति। जरती चासौ गौश्चेति कर्मधारये `गोरतद्धितलुकी'ति टचि अवादेशे `पुंवत्कर्मधारये'ति जरतीशब्दस्य पुंवत्त्वे ङीपो निवृत्तौ टित्त्वान्ङीपि जरद्गवीशब्दः। ततश्चित्रा जरद्गवी यस्येति कर्मधारयोत्तरपदके बहुव्रीहौ `नद्यृतश्चे'ति कपि चित्राशब्दस्य `स्त्रियाः पुंव'दिति पुंवत्त्वे `चित्रजरद्गवीक' इति रूपमित्यर्थः। स्त्रियाः किमिति। षष्ठ\उfffद्न्तस्य प्रश्नः। ग्रामणिदृष्टिरिति। ग्रामणीशब्दस्य नपुंसकत्वे `ह्यस्वो नपुंसके' इति ह्यस्वे ग्रामणिशब्द इदन्तः। कुलशब्दो नपुंसकत्वस्फोरणार्थः। दृष्टिशब्देन नेत्रस्थानापन्नं विवक्षितम्। ग्रामणि दृष्टिरस्येत्येव विग्रहः। `स्त्रियाः' इत्यस्याऽभावे ग्रामणीशब्दस्य पुंवत्त्वे नपुंसकह्यस्वनिवृत्तौ `ग्रामणीकुल'मिति स्यादिति भावः। गङ्गाभार्य इति। अत्र गह्गाशब्दस्य नित्यस्त्रीलिङ्गतया बाषितपुंसकत्वाऽभावान्न पुंवत्त्वमिति भावः। वामोरूभार्य इति। वामौ=सुन्दरौ ऊरू यस्या इति बहुव्रीहिः। `संहितशफलक्षणबामादेश्चेत्यूङ्। तदन्तस्य पुंवत्त्वे ऊङो निवृत्तौ `वामोरुभार्य' इति पूर्वपदमुदन्तमेव स्यादिति भावः। स्त्रियां किमिति। सप्तम्यन्तस्य प्रश्नः। कल्याणीप्रदान इति। अत्र प्रधानशब्दस्य नित्यनपुंसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वात्तस्मिन्परे पुंवत्त्वं नेति भावः। पूरण्यां त्विति। `पुंवत्त्वानिषेधोदाहरणे विशेषो वक्ष्यते' इति शेषः।

तत्त्वबोधिनी

721 स्त्रियाः पुंवत्। निपातनादिति। एतच्च पूर्वत्रापि योज्यम्। अन्यथा व्यधिकरणानां बहुव्रीहिः स्वरसतो न सिध्येत्। लुगति। `अनु'ङिति प्रथमान्तम्। षष्ठ\उfffद्र्थे प्रथमेति हरदत्तऋ। एवं च सूत्रे केषांचित् अनूङः समानाधिकरणे' इति षष्ठ\उfffद्न्तपाठोऽसांप्रदायुक इति भावः। तुल्ये इत्यादि। `भाषितः पुमान् यस्मिन्' इत्यादिव्याख्यानादयमर्थो लभ्यते इति `तृतीयादिषु भाषितपुंस्क'मित्यत्रोपपदितम्। यद्यत्र `भाषितः पुमान्येन तद्भाषितपुंस्क'मित्युच्येत तर्हि कुटीभार्यः द्रोणीभार्य इत्यादावतिप्रसङ्गः स्यात्। भवति हि कुटशब्दो घटे पुंलिङ्गो, गेहे तु स्त्रीलिङ्गः। द्रोणशब्दस्तु परिमाणविशेषे पुंलिङ्गो, गवादन्यां तु स्त्रीलिङ्ग इति। ऊङोऽभावा यत्रेति। यदि तु ऊङन्योऽनूङिति पर्युदासः स्यात्तर्हि टाबाद्यन्तमेव गृह्रेत। ततः किमिति चेत्, दरदोऽपत्यं दारदः।`व्द्यञ्मगधे'त्यण्, तस्य स्त्रियाम् `अणश्चे'ति लुक्। दरद्। सा चासौ वृन्दरिका च दारदवृन्दारिकेत्यादि न सिध्येत्। न ह्रत्र दर्शनीया भार्या यस्य स दर्शनीयभार्य इत्यादाविव स्त्रीप्रत्ययः कश्चिदस्तीति भावः। ननु `न कोपधाया ऊङश्चे'त्येव सूत्र्यतामिते चेन्न, बाधकबाधनार्थेन `पुंवत्कर्मधारये'त्यनेन वामोरूभार्येति कर्मधारये पुंवद्भावपत्तेः। पृथक्प्रतिषेधसामथ्र्यात्सिद्धान्ते तु न दोषः। `स्तरिया'इत्यस्य स्त्रीप्रत्ययपरतां वारयति–स्त्रीवाचकस्येति। `स्त्रीप्रत्ययस्य पुंवद्भावः' इत्युक्ते तु स्त्रीप्रत्ययलोप इत्येवार्थः पर्यवस्यतीति दारदवृन्दारिकेति न सिध्येत्। किं च `पटुभार्य'इत्यत्र उत्तरपदनिमित्ताया ङीषो निवृत्तेः `अचः परस्मिन्नि'ति स्थनिवद्भावाद्यण् स्यात्। अपि च वतण्डस्यापत्यं स्त्री वतण्डी। `वतण्डाच्चे'ति यञ्, `लुक्?स्त्रिया'मिति तस्य लुक्। शाङ्र्गरवादित्बान्ङीन्। वतण्डी चासौ वृन्दारिका च वातण्ड\उfffद्वृन्दारिका। अत्र पुंवद्भावेन ङीनो निवृत्तावपि अर्थगतस्य स्त्रीत्वस्यानिवृत्तत्वात् `लुक् स्त्रिया' मिति यञो लुक् प्रसज्येतेति भावः। ह्यस्व इति। `अनेक'मिति प्रथमानिर्दिष्टत्वात् `प्रथमानिर्दिष्ट'मिति, `एकविभक्ति चे'ति वा गोशब्दस्योपसर्जनत्वादिति भावः। चित्रा असिति। `अन्तरङ्गानपी'ति न्यायादिह पूर्वसवर्णदीर्घो न प्रवर्तते। अन्यथा एकादेशस्य परादित्वेन सुपो लुकि चुत्रगुरित्यत्र अकारो न लभ्येतेति भावः। नेहेति। अत्रैव सूत्रे पठ्वीमृव्द्यौ भार्ये अस्येति द्वन्द्वगर्भबहुव्रीहौ `पट्वीमृदुभार्य'इति भाष्योदाहरणादिति भावः। आनङिति। तथा च `समर्थ'सूत्रे भाष्ये `होतृपोतृनोष्टोद्गातार'इत्यत्र चतुर्णां द्वन्द्वे तृतीयस्यानङ् उदाह्मतः। पूर्वपदाक्षेपे तु स न सिध्येत्। न ह्रत्र नेष्टा पूर्वपदं, होतु रेव पूर्वपदत्वादिति भावः। अतएवेति। पूर्वपदाऽनापक्षेपादेवेत्यर्थः। चित्राजरदिति। द्वन्द्वन्तर्गतजरच्छब्दस्योत्तरपदत्वेऽप्यसामानाधिकरण्यान्न टापो निवृत्तिः। न चैवमपि द्वन्द्वात्मकस्य पूर्वपदस्य समानाधिकरणोत्तपदपरत्वात्पुंवद्भावे टाब्निवृत्तिर्दुर्वारेति वाच्यं, द्वन्द्वान्तर्गतचित्रजरच्छब्दयोः स्त्रीप्रत्ययप्रकृत्योः प्रत्येकं भाषितपुंस्कत्वेऽपि द्वन्द्वात्मकस्य पूर्वपदस्याऽतथात्वात्। द्वयोरपीति। पूर्वपदान्तर्गतमुत्तरपदमाश्रित्य प्रथमास्यपि पुंवद्भाव इति भावः। जरच्चित्रेति। ` पूर्वकालैके'ति समासः। लिङ्गविशिष्टपरिभाषया जरद्ग्रहणेन जरती शब्दस्यापि ग्रहणात्। चित्रजरद्गवीक इति। जरती चासौ गौश्च जरद्गवी। `गोरतद्धिते'ति टचि टित्त्वान्ङीप्। चित्रा जरद्गवीस यस्येति बहुव्रीहौ `नद्यृतश्चे'ति वक्ष्यमाणः कप्। वामोरूभार्य इति। `संहितशफलक्षणवामादेश्चे'त्यूङ्। प्रधानमिति। भावल्युडन्तं नित्यनपुंसकम्। पञ्चमीति। `तस्य पूरणे'इति डट्। `नान्तादसङ्ख्यादेः' इति डटो मडागमः। `टिड्ढे'ति ङीप्।

Satishji's सूत्र-सूचिः

TBD.