Table of Contents

<<6-3-2 —- 6-3-4>>

6-3-3 ओजःसहो ऽम्भस्तमसस् तृतीययाः

प्रथमावृत्तिः

TBD.

काशिका

ओजस् सहसम्भस् तमसित्येतेभ्य उत्तरस्याः तृतीयायाः अलुक् भवति उत्तरपदे। ओजसाकृतम्। सहसाकृतम्। अम्भसाकृतम्। तमसाकृतम्। अञ्जस उपसङ्ख्यानम्। अञ्जसाकृतम्। पुंसानुजो जनुषान्ध इति वक्तव्यम्। पुंसानुजः। जनुषान्धः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

945 ओजस्। `ओजस्', `सहस्', `अम्भस्', `तमस्'-एषां समाहारद्वन्द्वः। एभ्य परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः। ओजसाकृतमिति। `कर्तृकरणे कृता बहुल'मिति समासः। `ओजो दीप्तौ बले' इत्यमरः। इत्यादीति। `सहसाकृतम्', `अम्भसाकृतम्' `तमसावृत्तम्'। तमोवृत्तमिति तु असाध्वेव। शेषषष्ठ\उfffदा वा समासः। अञ्जस उपसङ्ख्यानमिति। अञ्जश्शब्दात्तृतीयाया अलुक उपसङ्ख्यानमित्यर्थः। अञ्जसाकृतमिति। अञ्जश्शब्द आर्जवे वर्तते, यथा क्षेत्रज्ञोऽञ्जसा नयतीत्यादौ तथा दर्शनात्। तदाह—आर्जवेनेति। यस्येति। यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः। जनुषेति। `जनुर्जननजन्मानी'त्यमरः जनुषा=जन्मना हेतुना अन्ध इत्यर्थः। फलितमाह–जात्यन्ध इति। ब्राआहृण्यादिजातितुल्याऽन्ध्वानित्यर्थः। उत्पत्तिप्रभृत्यन्ध इति यावत्।

तत्त्वबोधिनी

818 ओजः सहो। ओजसाकृतमिति। कर्तृकरणे कृतेति समासः। कथं तर्हि सततनैशतमोवृतमन्यतः इति भारविः ?। अत्राहुः – वृतु वर्तने इत्यस्मात् घञर्थे कविधानमिति भावे कप्रत्यये तदन्तेन षष्ठीसमासाश्रयणान्न दोष इति। यत्तु केवलपदाधिकार एव तदन्तविधिर्न तूत्तरपदाधिकारे। तथा च नैतशतमसा इति तृतीयाया अलुङ्न भवतीति दुर्घटवृत्याद्वुक्तम्। तन्न। पदाङ्गाधिकारे इत्यत्र इष्टकचितं, पक्वेष्टकचितमिति भाष्योदाहरमादुत्तरपदाधिकारेऽपि तदन्तविधिप्रवृत्तेः। इति च। जनुषेति। जनुर्जननजन्मानीत्यमरः।

Satishji's सूत्र-सूचिः

TBD.