Table of Contents

<<6-3-1 —- 6-3-3>>

6-3-2 पञ्चम्याः स्तोकादिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

स्तोकान्मुक्तः। अल्पान्मुक्तः। उत्तरपदे इति किम्? निष्क्रान्तः स्तोकात् निस्तोकः। अन्यार्थम् इदम् उत्तरपदग्रहणम् इह अप्यलुको निवृतिं करोति इत्येवम् अर्थं लक्षणप्रतिपदोक्तपरिभाषा न अश्रयितव्या। अलुगधिकारः प्रागानङः। उत्तरपदाधिकारः प्रागङ्गाधिकारात्। पञ्चम्याः स्तोकाऽदिभ्यः

6-3-2 ।

स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्याः उत्तरपदे अलुक् भवति। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादगतः अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान्मुक्तः। समासे कृते प्रातिपदिकत्वात् सुपो लुकि प्राप्ते प्रतिषेधः क्रियते। द्विवचनबहुवचनान्तानां तु स्तोकादीनाम् अनभिधानात् समास एव न भवति स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्तः इति। तेन अत्र न कदाचिदैकपद्यम् ऐकस्वर्यं च भवति। ब्राह्मणाच्छंसिन उपसङ्ख्यानं कर्तव्यम्। ब्राह्मणदादाय शंसति इति ब्राह्मणाच्छंसी इति। ऋत्विग्विशेषस्य रूढिरियम्। तस्य व्युत्पत्तिरसता सता वा अवयवार्थेन क्रियते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

933 अलुगुत्तरपदे. स्तोकान्मुक्तः. अन्तिकादागतः. अभ्याशादागतः. दूरादागतः. कृच्छ्रादागतः..

बालमनोरमा

944 पञ्चम्याः स्तोकादिभ्यः। एभ्य इति। स्तोकादिभ्यः परा या पञ्चमी तस्या `सुपो धातु' इति लुङ् न स्यादित्यर्थः। उत्तरपदे इति। उत्तरशब्दः समासचरमावयवे रूढः, `पदे' इत्येव सिद्धे उत्तरग्रहणात्। स्तोकान्मुक्त इति। एवमल्पान्मुक्तः। `स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेने'ति समासः। अत्र पञ्चम्या अलुक्। एवमिति। आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः। अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादागतः। निःस्तोक इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्ये'ति समासः। अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाऽभावात्पञ्चम्या अलुक् न। `स्तोकान्मुक्तः' इत्यादौ समासप्रयोजनं तु समासस्वरः, सर्वस्मात्स्तोकान्मुक्त इति विशेषणयोगाऽभावश्च। किंच स्तोकान्मुक्तस्यापत्यं स्तौकामुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च। स्तोकान्मुक्तौ, स्तोकान्मुक्ता इति द्विबहवचनान्तैर्न समासः, अनभिधानादिति भाष्ये स्पष्टम्। ब्राआहृणानि शंसतीत्यर्थे कथं पञ्चमी ?। विधायकवाक्यानि हि ब्राआहृणशब्देनोच्यन्ते, `कर्मचोदना ब्राआहृणानि' इति कल्पसूत्रात्, `शेषे ब्राआहृणशब्दः' इति मन्त्रभिन्नवेदभागे ब्राआह्णशब्दस्य जैमिनिना सङ्केतितत्वाच्च। एतादृशब्राआहृणभागस्य न क्लापि शंसनं विहितम् `ऋचः शंसति निविदः शंसती'ति श्रुतिष्वित्यत आह–ब्राआहृणे इति। शस्त्राणीति। ऋचा निविदां च सङ्घः शस्त्रम्। उपचारादिति। लक्षणयेत्यर्थः। द्वितीयार्थे इति। पञ्चम्या अलुगुपसङ्ख्यानबलादेव द्वितीयार्थे पञ्चमीत्यर्थः।

तत्त्वबोधिनी

337 हलः। र`संप्रसारणस्ये'त्यनुवर्तते। `अङ्गस्ये'त्यवयवषष्ठी। `हल' इति पञ्चमी। तदेतदाह–अङ्गावयवादिति। अङ्गावयवात्किम् ?। निरुतम्। दुरुतम्। तदन्ताङ्गस्य किम् ?। विध्यति। क्षीष् हिंसायाम्। षित्त्वादङ्। `क्षिया'। `हेति क्षियायाम्'। `क्षियाशी'रित्यादौ `क्षिया धर्मव्यतिक्रम आचारभेद' इति वक्ष्यति। दीर्घनिर्देशसामथ्र्यादिति। ननु दीर्घग्रहणेनाऽङ्गवृत्तपिरभाषा ज्ञाप्यत इत्याकरे स्थितम्। अन्यथा ज्ञाजनोर्जं विदध्यात्, `अतो दीर्घो यञी'ति दीर्घसिद्धेः। तथा च दीर्घनिर्देशसामथ्र्यस्योपक्षयात्कथमिह ह्यस्वाऽभावसिद्धिरिति चेत्। अत्राहुः- - ह्यस्वाऽभावे सत्येव दीर्घनिर्देश उक्तपरभाषाया ज्ञापकः। सति तु ह्यस्वे पुनरङ्गकार्यं प्रवृत्तमेवेति न ज्ञापकः। तथा च ह्यस्वाऽभावसिद्धौ न किंचिद्बाधकमिति। किंच `अङ्गवृत्ते पुनरङ्गवृत्तावविधि'रित्येव परिभाषाशरीरम्। तञ्चोक्तज्ञापकात्सिद्धम्। यदि तु `भ्यसो भ्य'मिति सूत्रे भाष्ये परिनिष्ठितस्येत्येव पाठस्तर्हि स्वतन्त्रमेवेदं वचनं न तु ज्ञापकमिति पक्षोऽपि युष्मदस्मच्छब्दगतमनोरमाग्रन्तादवगम्यते। त\उfffद्स्मस्तु पक्षे दीर्घग्रहणसामथ्र्यं नोपक्षीणमिति सम्यगेवायं ग्रन्थ इति। केच#इत्तु संज्ञापूर्वकविधेरनित्यत्वान्न ह्यस्व इति व्याख्येयमित्याहुः। बध्नातीति। `अनिदिता'मिति नलोपः। अभान्त्सीदिति। `वदव्रजे'ति वृद्धिः। भष्भावः। अबान्द्?धामिति। `झषस्तथो'रिति तस्य धत्वम्। `झरो झरी'ति वा लोपः। वृङ् संभक्तौ। भक्तिर्भजनम्। श्रन्थ। कित्त्वपक्षे इति। `श्रन्थिग्रन्थदम्भिस्वञ्जीनां लिटः कित्त्वं वे'ति व्याकरणान्तरमित्युक्तत्वात्।

Satishji's सूत्र-सूचिः

TBD.