Table of Contents

<<6-3-21 —- 6-3-23>>

6-3-22 पुत्रे ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमाने ऽन्यतरस्यां षष्ठ्याः अलुग् भवति। दास्यःपुत्रः, दासीपुत्रः। वृषल्याःपुत्रः वृषलीपुत्रः। आक्रोशे इत्येव, ब्राह्मणीपुत्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

965 पुत्रेऽन्यतरस्यां। निन्दायामिति। `आक्रोशे' इत्यनुवृत्तिलभ्यमिदम्। स्पष्टं चेदम् `आनङृतः' इत्यत्र भाष्ये।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.