Table of Contents

<<6-2-199 —- 6-3-2>>

6-3-1 अलुगुत्तरपदे

प्रथमावृत्तिः

TBD.

काशिका

अलुकिति च, उत्तरपदे इति च एतदधिकृतम् वेदितव्यम्। यदिति ऊर्ध्वम् अनुक्रमिष्यामो ऽलुकुत्तरपदे इत्येवं तद् वेदितव्यम्। वक्ष्यति

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

943 अथाऽलुक्समासो निरूप्यते–अलुगुत्तरपदे। नाऽयं विधिः, `राजपुरुष' इत्यादावतिप्रसङ्गात्, `पञ्चम्याः स्तोकादिभ्यः' इत्याद्यारम्भाच्च। किंतु पदद्वयमधिक्रियते। अस्य कियत्पर्यन्तमनुवृत्तिरित्याह-अलुगधिकारः प्रागानङ इति। `आनङृतः' इत्यतः प्रागित्यर्थः। उत्तरपदेति। षष्ठस्य तृतीये पादे अद्यमिदं सूत्रम्। #इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः। अत्रोतत्रपदादिकारनियमे भाष्येमेव प्रमाणम्।

तत्त्वबोधिनी

816 अलुक्सयादिति। प्रसज्यप्रतिषेधोऽयम्। सुपो धात्वित्यादिना प्राप्तो लुङ्ग भवतीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.