Table of Contents

<<6-3-17 —- 6-3-19>>

6-3-18 शयवासवासिष्वकलात्

प्रथमावृत्तिः

TBD.

काशिका

शय वास वासिनित्येतेषु उत्तरपदेष्वकालवाचिनः उत्तरस्याः सप्तम्या विभाषा अलुक् भवति। खेशयः, खशयः। ग्रामेवासः, ग्रामवासः। ग्रामेवासी, ग्रामवासी। अकालातिति किम्? पूर्वह्णशयः। हलदन्तातित्येव, भूमिशयः। अपो योनियन्मतुसु सप्तम्या अलुग् वक्तव्यः। अप्सुयोनिः। अप्सव्यः। अप्सुमन्तौ। अप्सु भवः इति दिगादित्वाद् यत् प्रत्ययः। सर्वत्र सप्तमी ती योगविभागात् समासः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

961 शयवास। शय, वास, वासिन्-एतेषु परेषु कालभिन्नात्सप्तम्या अलुक् स्यादित्यर्थः। \र्\नपो योनि। योनिशब्दे यत्प्रत्यये मतुपि च परेऽप्शब्दात्सप्तम्या अलुक् स्यादित्यर्थः। अप्सव्य इति। दिगादित्वाद्यत्। `ओर्गुणः' `वान्तो यी'त्यवादेशः। अप्सुमन्ताविति। `अप्सु' इति पदं यदीयमन्त्रयोरस्ति तावप्सुमन्तौ, आज्यभागाविति कर्मविशेषौ।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.