TBD.
दा इत्येतस्य यः तकारादिरादेशः तस्मिन् परतः इगन्तस्य उपसर्गस्य दीर्घो भवति। नीत्तम्। वीत्तम्। परीत्तम्। अच उपसर्गात् तः 7-4-47 इत्यन्तस्य यद्यपि तकारः क्रियते तथापि चर्त्वस्याश्रयात् सिद्धत्वम् इति तकारादिर् भवति। इकः इत्येव, प्रत्तम्। अवत्तम्। दः इति किम्? वितीर्णम्। नितीर्णम्। ति इति किम्? सुदत्तम्।
TBD.
–
885 दस्ति। `इकः काशे' इत्यत इक इति, `उपसर्गस्य घञ्यमनुष्ये' इत्यत उपसर्गस्येति , `ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते। उत्तरपदे इत्यधिकृतं तीत्यनेन विशेष्यते। तदादिविधिः। द इति षष्ठी ति इत्यत्रान्वेति। तथा च दाधातोरादेशो यस्तकारस्तदादौ उत्तरपदे इति लभ्यते। तदाह– इगन्तत्यादि। ननु नि दात त इति स्थिते `अच उपसर्गात्तःर' इति दकारादाकास्य तकारे दकारस्य `खरि चे'ति चर्त्वे प्रकृतसूत्रेण उपसर्गस्य दीर्घे नीत्त्मिति रूपं वक्ष्यति, तदयुक्तम्, दीर्घे कर्तव्ये चत्त्र्वस्याऽसिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाऽभावादित्यत आह- - चत्त्र्वमाश्रयात्सिद्धमिति। दादेशतकारमाश्रित्य विधियमाने दीर्घे चर्त्वं नाऽसिद्धं, चत्र्वसिद्धं तकारमाश्रित्य विधिबलादित्यर्थ-। सूत्तमिति तु चिन्त्यम्, `गतिश्चे'ति सूत्रभाष्यवार्तिकयोः सुदत्तमित्यत्र `अच उपसर्गात्तः' इति तत्वे कर्तव्ये सोरुपसर्गत्वं नेति प्रपञ्चितम्। अथ धेङ्गापाधुतभ्यः क्ते आह- - घुमास्थेति। धीतमिति। `दधातेर्हिः' इत्यत्र श्लुविकरणग्रहणान्न हिभावः।
729 दस्ति। `इकः काशे' इत्यत `इक' इति, `उपसर्गस्य घञी'त्यत उपसर्गस्येति, `ढ्रलोपे पूर्वस्ये'त्यतो दीर्घ इति चानुवर्तते। `अलुगुत्तरपदे' इत्यतोऽनुवृत्तस्योत्तरपदे इत्यस्य तीति विशेषणं। `यस्मिन्विधि'रिति तदादिविधिः, तदेतत्सकलमभिप्रेत्य व्याचष्टे– इगन्तोपसर्गस्येत्यादिना। ननु चत्त्र्वस्याऽसिद्धत्वाद्दादेशतकारो नास्तीत्यत आह– आश्रयात्सिद्धमिति। `अतो रो'रित्युत्वं प्रति रुत्ववदिति भावः। धीतमिति। `दधातेर्हि'रित्यत्र लुग्विकरणस्य निर्देशात् घेट् पान इति भ्वादेर्हिर्न भवति, नापि दत् `दो दद्धो'रिति द इत्युपादानादिति भावः।
TBD.