TBD.
उपसर्गस्य घञन्ते उत्तरपदे अमनुष्ये ऽभिधेये बहुलं दीर्घो भवति। वीक्लेदः। वीमार्गः। अपामार्गः। न च भवति। प्रसेवः। प्रसारः। सादकारयोः कृत्रिमे दीर्घो भवति। प्रासादः। प्राकारः। कृत्रिमे इति किम्? प्रसादः। प्रकारः। वेशादिषु विभाषा दीर्घो भवति। प्रतिवेशः, प्रतीवेशः। प्रतिरोधः, प्रतीरोधः। अमनुष्ये इति किम्? निषादो मनुष्यः।
TBD.
–
1029 उपसर्गस्य। परीपाक इति। पचेर्भावे घञ्, उपधावृद्धिः। `चजोः कु घिण्ण्यतो'रिति कुत्वम्। निषाद इति। पुलिन्दो नाम मनुष्यजातिविशेषः। निषीदत्यस्मिन् पापमिति निषादः। `हलश्चे'त्यधिकरणे घञ्। दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः। यद्वा प्रतीहारो द्वारम्, तत्स्थत्वान्मनुष्ये गौणः।
866 घञन्त इति। निषाद इति। पुलिन्दो मनुष्यजातिः। `निषीदत्यस्मिन्पाप'मिति निषादः। `हलश्चे'त्याधिकरणे घञ्। कथं तर्हि दौवारिके प्रतीहारशब्दप्रयोग इति चेत्?। अत्राहुः–प्रतीहारो द्वारम्। तास्थ्यात्ताच्छब्द्यमिति।
वृत्तिः उपसर्गस्य बहुलं दीर्घ: स्याद्घञन्ते परे न तु मनुष्ये । (The ending vowel of) a उपसर्ग: (ref. 1-4-59) is variously elongated when followed by a term which ends in the affix घञ्, provided that the derived word does not denote a human being.
Note: In the महाभाष्यम् under this सूत्रम् there is a वार्त्तिकम् which reads सादकारयो: कृत्रिमे – When ‘साद’ or ‘कार’ follows, the elongation (prescribed by 6-3-122) should be done only when the derived word denotes something artificial. Hence we have प्रासाद: (palace) and प्राकार: (fence), but प्रसाद: (grace) and प्रकार: (manner.)
Example continued from 3-3-121
प्र साद् + अ
= प्रासाद by the वार्त्तिकम् – सादकारयो: कृत्रिमे (under the सूत्रम् 6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम्)। ‘प्रासाद’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
अमनुष्ये किम्? निषीदत्यस्मिन् पापमिति निषाद: (hunter tribe.)