Table of Contents

<<6-3-120 —- 6-3-122>>

6-3-121 इको वहे ऽपीलोः

प्रथमावृत्तिः

TBD.

काशिका

इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वहे उत्तरपदे दीर्घो भवति। ऋषीवहम्। कपीवहम्। मुनीवहम्। इकः इति किम्? पिण्डवहम्। अपीलोः इति किम्? पीलुवहम्। अपील्वादीनाम् इति वक्तव्यम्। इह मा भूत्, चारुवहम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1028 इको वहेऽपीलोः। `अपीलो'रिति च्छेदः। इगन्तस्येति। `पूर्वपदस्ये'ति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.