Table of Contents

<<6-3-119 —- 6-3-121>>

6-3-120 शरादीनाम् च

प्रथमावृत्तिः

TBD.

काशिका

शरादीनां च मतौ दीर्घो भवति संज्ञायां विषये। शरावती। वंशावती। शर। वंश। धूम। अहि। कपि। मणि। मुनि। शुचि। हनु। शरादिः। संज्ञायाम् 8-2-11 इति मतोर्वत्वम्। यवादित्वात् व्रीह्यादिभ्यो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1027 शरादीनां च। ` मतौ दीर्घः संज्ञाया'मिति शेषः। अबह्वच्कत्वात्पूर्वेण न प्राप्तिः। शरावतीति। शरा अस्यां सन्तीति विग्रहः। नदीविशेषस्य नाम।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.