Table of Contents

<<6-3-118 —- 6-3-120>>

6-3-119 मतौ बह्वचो ऽनजिरादीनाम्

प्रथमावृत्तिः

TBD.

काशिका

मतौ परतो बह्वचो ऽजिरादिवर्जितस्य दीर्घो भवति संज्ञायाम् विषये। उदुम्बरावती। मशकावती। वीरणावती। पुष्करावती। अमरावती। नद्यां मतुप् 4-2-85 इति मतुप्प्रत्ययः। संज्ञायाम् 8-2-11 इति मतोर्वत्वम्। बह्वचः इति किम्? व्रीहिमती। अनजिरादीनाम् इति किम्? अजिरवती। खदिरवती। पुलिनवती। हंसकारण्डववती। चक्रवाकवती। संज्ञायाम् इत्येव, वलयवती।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1026 मतौ। मतुप्प्रत्यये परे बह्वचो दीर्घः स्यात्संज्ञायां, न त्वजिरादीनामित्यर्थः। अमरावतीति। इन्द्रनगर्याः संज्ञेयम्। अमरा अस्यां सन्तीति विग्रहः। `मादुपधायाश्चे'ति, `संज्ञाया'मिति वा मस्य वः। अजिरवतीति। नदीविशेषस्य संज्ञेयम्। वलयवतीति। अनजिरादित्वेऽप्यसंज्ञात्वान्न दीर्घ इति भावः।

तत्त्वबोधिनी

865 अमरावतीति। `मादुपधायाश्चे'ति, `संज्ञाया'मिति वा मतोर्मस्य वः। घञ्मात्रस्योत्तरपदत्वाऽसंभवादाह–

Satishji's सूत्र-सूचिः

TBD.