Table of Contents

<<4-2-84 —- 4-2-86>>

4-2-85 नद्यां मतुप्

प्रथमावृत्तिः

TBD.

काशिका

नद्याम् अभिधेयायां मतुप् प्रत्ययो भवति चातुरर्थिकः। तन्नाम्नो देशस्य विशेषणं नदी। उदुम्बरा यस्यां सन्ति उदुम्बरवती। मशकावती। वीरणावती। पुष्करावति। इक्षुमती। द्रुमती। इह कस्मान् न भवति, भागीरथी, भैमरथी? मतुबन्तस्य अतन्नामधेयत्वात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1285 नद्यां मतुप्। चातुरर्थिक इति। शेषपूरणम्। इक्षमतीति। मतुपि उपावितौ। इक्षवः सन्त्यस्मिन् इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.