<<6-3-106 —- 6-3-108>>
TBD.
उष्णशब्दे उत्तरपदे कोः कवम् इत्ययम् आदेशो भवति, का च विभाषा। कवोष्णम्, कोष्णम्, कदुष्णम्।
–
1018 कवं चोष्णे। कवं का च वेति। विभाषेत्यनुवृत्तेरिति भावः। उभयाऽभावे कदादेशः। तथा च रूपत्रयम्। तदाह–कोष्णं कवोष्णं कदुष्णमिति।