Table of Contents

<<6-3-105 —- 6-3-107>>

6-3-106 विभाषा पुरुषे

प्रथमावृत्तिः

TBD.

काशिका

पुरुषशब्दे उत्तरपदे विभाषा कोः का इत्ययम् आदेशो भवति। कापुरुषः, कुपुरुषः। अप्राप्तविभाषेयम्। ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति। ईषत् पुरुषः कापुरुषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1017 विभाषा पुरुषे। `कोः का इत्यादेश' इति शेषः। अप्राप्तविभाषेति ननु कोरीषदर्थकत्वे सति `ईषदर्थे' इति नित्ये कादेशे प्राप्ते विकल्पसंभव इत्यत आह– ईषदर्थे हीति। वृत्त्यनुसारेणेदमुक्तं, पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात्।

तत्त्वबोधिनी

859 अप्राप्तविभाषेति। `ईषदर्थे'इत्यस्याननुवृत्तेरिति भावः।

Satishji's सूत्र-सूचिः

TBD.