Table of Contents

<<6-3-103 —- 6-3-105>>

6-3-104 का पथ्यक्षयोः

प्रथमावृत्तिः

TBD.

काशिका

पथिनक्ष इत्येतयोरुत्तरपदयोः कोः का इत्ययम् आदेशो भवति। कापथः। काक्षः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1015 का पथ्यक्षयोः। पथिन्, अक्ष–अनयोः परतः कोः `का' इत्यादेशः स्यादित्यर्थः। कापथमिति। कुत्सितः पन्था इति विग्रहः। `कुगती'ति समासः। `ऋक्पू'रित्यप्रत्ययः। `पथः सङ्ख्याव्ययादे'रिति नपुंसकत्वम्। `कापथ' इति पाठे तु बहुव्रीहिः। काऽक्षशब्दे समासं दर्शयति–अक्षशब्देन तत्पुरुष इति। कुत्सितमक्षमिन्द्रियमिति विग्रहे `कुगती'ति समास इत्यर्थः। अक्षिशब्देनेति। कुत्सिते अक्षिणी यस्येति विग्रहे `बहुव्रीहौ सक्थ्यक्ष्णो'रिति षजित्यर्थः।

तत्त्वबोधिनी

858 कापथमिति। कुत्सितः पन्थाः। `ऋक्पूरब्धू'रिति समासान्तः। `पथः सङ्ख्याव्ययादेः'इति नपुंसकत्वम्।

Satishji's सूत्र-सूचिः

TBD.