Table of Contents

<<6-2-41 —- 6-2-43>>

6-2-42 कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपण्यकम्बलो

दासीभाराणां च

प्रथमावृत्तिः

TBD.

काशिका

कुरुगार्हपत रिक्तगुरु असूतजरती अश्लीलदृढरूपापारेवडवा तैतिलकद्रू पण्यकम्बल इत्येते समासाः, तेषां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति। कुरूणां गार्हपतं कुरुगार्हपतम्। कृग्रोरुच्च इति कुरुशब्दः कुप्रत्ययान्तो ऽन्तोदात्तः। कुरुवृज्योर् गार्हपत इति वक्तव्यम्। वृजीनां गार्हपतं वृजिगार्हपतम्। वृजिशब्द आद्युदात्तः। रिक्तो गुरुः रिक्तगुरुः, रिक्तगुरुः। रिक्ते विभाषा 6-1-208 इति पूर्वपदम् आद्युदात्तम् अन्तोदत्तं वा। असूता जरती असूतजरती। अश्लीला दृढरूपा अश्लीलदृढरूपा। अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः। श्रीः यस्य अस्ति तत् श्लीलम्। सिध्मादेराकृतिगणत्वाल् लच्। कपिलकादित्वाच् च लत्वम्। अश्लीलदृढरूपा इति हि संस्थानमात्रेण शोभना निःश्रीका लावण्यविरहिता उच्यते। पारे वडवा इव पारेवडवा। निपातनादिवार्थे समासो विभक्त्यलोपश्च। पारशदो घृतादित्वादन्तोदात्तः। तैतिलानां कद्रूः तैतिलकद्रूः। तितिलिनो ऽपत्यं छात्रो वा तैतिलः इत्यणन्तः। पण्यकम्बलः। पण्यशब्दो यदन्तत्वादाद्युदात्तः। पण्यकम्बलः संज्ञायाम् इति वक्तव्यम्। अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्त्वम् एव। प्रतिपदोक्ते हि कृत्यानां समासे द्वितीया दृत्या इत्येष विहितः स्वरितः। दास्या भारः दासीभारः। देवहूतिः। देवजूतिः। देवसूतिः। देवनीतिः। अन्तोदात्तं पूर्वपदम्। वसुनीतिः। वसुशदः आद्युदात्तः। शृ\उ0304स्वृस्निहित्रप्यसिवसि इत्यत्र धान्ये नितिति वर्तते। ओषधिः। ओषो धीयते ऽस्याम् इति कर्मण्यधिकरणे च 3-3-93 इति किप्रत्ययः। ओषशब्दो घञन्तत्वादाद्युदात्तः। चन्द्रमाः। चन्द्रे मो डितिति असिप्रत्ययान्तो ऽयम्। चन्द्रशब्दस् तु रक्प्रत्यान्तत्वादन्तोदात्तः। यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वम् इष्यते, न च विहितं, स सर्वो दासीभारादिसु द्रष्टव्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.