Table of Contents

<<4-2-63 —- 4-2-65>>

4-2-64 प्रोक्ताल् लुक्

प्रथमावृत्तिः

TBD.

काशिका

प्रोक्तसहचरितः प्रत्ययः प्रोक्तः। प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोः उत्पन्नस्य लुग् भवति। पाणिनिना प्रोक्तं पाणिनीयम्। तदधीते पाणिनीयः। आपिशलः। स्त्रियां स्वरे च विशेषः। पाणिनीया ब्राह्मणी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1255 अथ पाणिनिशब्दं व्युत्पादयितुमुपक्रमते-प्रोक्ताल्लुक्। प्रोक्तशब्देन प्रोक्तार्थप्रत्ययो विवक्षितः। अध्येतृवेदितृप्रत्ययस्येति प्रकृतत्वाल्लभ्यते। तदाह–प्रोक्तार्थकेति। पण इति। स्तुरित्यर्थः। ननु `हलश्चे'ति घञि उपधावृद्धिः स्यादित्यत आह–घञर्ते इति। पणीति। `अत इनिठनौ' इति मत्वर्थे इनिः। तस्येति। पणिनो गोत्रापत्ये `तस्यापत्य'मित्यणि `पाणिन' इति रूपमित्यर्थः। अत्र अणोऽपत्यत्वात्तस्मिन्परे `इनण्यनपत्ये' इति प्रकृतिभावाऽभावाट्टिलोपे प्राप्ते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.