Table of Contents

<<6-2-33 —- 6-2-35>>

6-2-34 राजन्यबहुवचनद्वन्द्वे ऽन्धकवृष्णिषु

प्रथमावृत्तिः

TBD.

काशिका

राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वो ऽन्धकवृष्णिषु वर्तते तत्र पूर्वपदं प्रकृतिस्वरम् भवति। श्वाफल्कचैत्रकाः। चैत्रकरोधकाः। शिनिवासुदेवाः। श्वाफल्कशब्दः चैत्रकशब्दश्च ऋष्यन्धकवृष्णिकुरुभ्यश्च 4-1-114 इति अणन्तावन्तोदात्तौ। शिनिशब्द आद्युदात्तः, स तदपत्येष्वभेदेन वर्तते। राजन्य इति किम्? द्वैप्यहैमायनाः। द्वीपे भवाः इति द्वीपादनुसमुद्रं यञ् 4-3-10। हैमेरपत्यं युवा हैमायनः। अन्धकवृष्णय एते न तु राजन्याः। राजन्यग्रहणम् इह अभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम्। एते च न अभिषिक्तवंश्याः। बहुवचनग्रहणं किम्? सङ्कर्षणवासुदेवौ। द्वन्द्वे इति किम्? वृष्णीनां कुमाराः वृष्णिकुमाराः। अन्धकवृष्णिषु इति किम्? कुरुपञ्चालाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.