TBD.
विस्पष्टादिनि पूर्वपदानि गुनवानेषु उत्तरपदेषु प्रकृतिस्वराणि भवन्ति। विस्पष्टकटुकम्। विचित्रकटुकम्। व्यक्तकटुकम्। विस्पष्टलवणम्। विचित्रलवणम्। व्यक्तलवणम्। विस्पष्टं कटुकम् इति विगृह्य सुप्सुपा इति समासः। विस्पष्टादयो ह्यत्र प्रवृत्तिनिमित्तस्य विशेषणम्। कटुकादिभिश्च शब्दैर् गुनवद् द्रव्यम् अभिधीयते इत्यसामानाधिकरन्यम् अतो न अस्ति कर्मधारयः। विस्पष्टशब्दो गतिरनन्तरः 6-2-49 इत्याद्युदात्तः। विचित्रशब्दो ऽपि अव्ययस्वरेण। विचित्तशब्दमन्ये अहन्ति। सो ऽपि बहुव्रीहिस्वरेण आद्युदात्त एव। व्यक्तशब्दः उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य 8-2-4 इत्यादिस्वरितः। ये च अत्र अपरे पठ्यन्ते तत्र सम्पन्नशब्दस्थाथादिस्वरेण अन्तोदात्तः। पटुपण्डितशब्दौ प्रत्ययस्वरेण। कुशलशब्दः कृत्स्वरेण अन्तोदत्तः। चपलशब्दश्चित्स्वरेण अन्तोदात्तः, चुपेरच्चोपधायाः इत्यत्र हि चिदिति वर्तते। निपुणशब्दस्थाथादिस्वरेण अन्तोदत्तः, पुणेरिगुपधलक्षणः कप्रत्ययो ऽयम्। विस्पष्टादीनि इति किम्? परमलवणम्। उत्तमलवणम्। गुणवचनेषु इति किम्? विस्पष्टब्राह्मणः। विस्पष्ट। विचित्र। व्यक्त। सम्पन्न। पटु। पण्डित। कुशल। चपल। निपुण। विस्पष्टादिः।
TBD.
–
–
–
TBD.