TBD.
स्फिग पूत वीणा अञ्जसध्वन् कुक्षि इत्येतान्युत्तरपदानि सीरनामानि च नामशब्दश्च अपादुत्तराण्यन्तोदात्तनि भवन्ति। अपस्फिगम्। अपपूतम्। अपवीणम्। अपञ्जः। अपाध्वा। उपसर्गादध्वनः 5-4-85 इति यदा समासान्तो न अस्ति तदा अनेन अन्तोदात्तत्वं भवति। तस्मिन् हि सत्यच्प्रत्ययस्य चित्त्वादेव सिद्धम्। अनित्यश्च समासान्तः इत्येतदेव ज्ञापकम्। अपकुक्षिः। अपसीरः। अपहलम्। अपलाङ्गलम्। अपनाम। सर्वत्र प्रादिसमासो, बहुव्रीहिः, अव्ययीभावो वा। स्फिगपूतकुक्षीणां ग्रहणम् अबहुव्रीह्यर्थम् अध्रुवार्थम् अस्वाङ्गार्थं च।
TBD.
–
–
–
TBD.