Table of Contents

<<6-2-183 —- 6-2-185>>

6-2-184 निरुदकादीनि च

प्रथमावृत्तिः

TBD.

काशिका

निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति। निरुदकम्। निरुलपम्। निरुपलम् इत्यन्ये पठन्ति। निर्मशकम्। निर्मक्षिकम्। एषां प्रादिसमासो बहुव्रीहिर् वा। अव्ययीभावे तु समासान्तोदात्तत्वेन एव सिद्धम्। निष्कालकः। निष्क्रान्तः कालकातिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः। निष्कालिकः इत्यन्ये पथन्ति। निष्पेषः। दुस्तरीपः। अवितृ\उ0304स्तृ\उ0304तन्त्रिभ्य ईः, तरीः। तां पाति इति तरीपः। कुत्सितः तरीपः दुस्तरीपः। निस्तरीपः इति केचित् पठन्ति। अपरे निस्तरीकः इति। ते तरीशब्दान्ते बहुव्रीहौ कपं कुर्वन्ति। निरजिनम्। उदजिनम्। उपाजिनम्। परेर्हस्तपादकेशकर्षाः। परिहस्तः। परिपादः। परिकेशः। परिकर्षः। निरुदकादिराकृतिगणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

849 अरित्रम्. लवित्रम्. धुवित्रम्. सवित्रम्. खनित्रम्. सहित्रम्. चरित्रम्..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.