Table of Contents

<<6-2-174 —- 6-2-176>>

6-2-175 बहोर् नञ्वदुत्तरपदभूम्नि

प्रथमावृत्तिः

TBD.

काशिका

उतरपदार्थबहुत्वे यो बहुशब्दो वर्तते तस्मात् नञ इव स्वरो भवति। नञ्सुभ्याम् 6-2-172 इत्युक्तम्, बहोरपि तथा भवति। बहुयवो देशः बहुव्रीहिः। बहुतिलः। कपि पूर्वम् 6-2-173 इत्युक्तम्, बहोरपि तथा भवति। बहुकुमारीको देशः। बहुवृषलीकः। बहुब्रह्मबन्धूकः। ह्रस्वान्ते ऽन्तो ऽन्त्यात् पूर्वम् 6-2-174 इत्युक्तम्, बहोरपि तथा भवति। बहुयवको देशः। बहुव्रीहिकः। बहुमाषकः। नञो जरमरमित्रमृताः 6-2-116 इत्युक्तम्, बहोरपि तथा भवति। बहुजरः। बहुमरः। बहुमित्रः। बहुमृतः। उत्तरपदभूम्नि इति किम्? बहुषु मनः अस्य बहुमनाः अयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.