Table of Contents

<<6-2-126 —- 6-2-128>>

6-2-127 चीरम् उपमानम्

प्रथमावृत्तिः

TBD.

काशिका

चीरमुत्तरपदम् उपमानवाचि तत्पुरुषे समासे आद्युदात्तं भवति। वस्त्रं चीरम् इव वस्त्रचीरम्। पटचीरम्। अम्बलचीरम्। उपमानम् इति किम्? परमचीरम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

91 इकोऽसवर्णे। `इक' इति षष्ठी। `एङः पदान्ता'दित्यतः `पदान्ता'दित्यनुवर्तते। तच्च षष्ठ\उfffद्न्ततया विपरिणम्यते। `अची'ति चानुवर्तते। ततश्च `पदान्तस्येकोऽसवर्णेऽचि परे ह्यस्वः स्या'दित्येकं वाक्यम्। चकारात्प्रकृत्यान्तः पादमित्यतः प्रकृत्येत्यनुकृष्यते। ह्यस्व इति तत्रापि संबध्यते। ततश्च `उक्तो ह्यस्वः प्रकृत्या स्वभावेन अवतिष्ठत' इति वाक्यान्तरं सम्पद्यते। फलितमाह– पदान्ता इक इत्यादिना। यदि चकारो न क्रियेत, तर्हि पदान्तस्य इकोऽसवर्णेऽचि परे ह्यस्वः स्यादित्येव लभ्यते। तस्य ह्यस्वस्य प्रकृतिभावो न लभ्येत। ततश्च चक्री- अत्रेति स्थिते ईकारस्य ह्यस्वे सति तस्य यणादेशे चक्र्यत्रेत्येव स्यात्। वक्रि- अत्रेति ह्यस्वसमुच्चितप्रकृतिभावविशिष्टं रूपं न स्यात्। इष्यते तदपि। अतः प्रकृत्येत्यनुकर्षणार्थश्चकार आवश्यक इति सूत्रकारस्य ह्मदयम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.