Table of Contents

<<6-2-120 —- 6-2-122>>

6-2-121 कूलतीरतूलमूलशालाऽक्षसमम् अव्ययीभावे

प्रथमावृत्तिः

TBD.

काशिका

कूल तीर तूल मूल शाला अक्ष सम इत्येतानि उत्तरपदानि अवयीभावसमासे आद्युदात्तानि भवन्ति। परिकूलम्। उपकूलम्। परितीरम्। उपतीरम्। परितूलम्। उपतूलम्। परिमूलम्। उपमूलम्। परिशालम्। उपशालम्। पर्यक्षम्। उपाक्षम्। सुषमम्। विषमम्। निषमम्। दुःषमम्। तिष्ठद्गुप्रभृतिषु एते पठ्यन्ते। कूलादिग्रहणं किम्? उपकुम्भम्। अव्ययीभावे इति किम्? परमकूलम्। उत्तरमकूलम्। पर्यादिभ्यः कूलादीनाम् आद्युदात्तत्वं विप्रतिषेधेन भवति। परिकूलम्। उपकूलम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.