TBD.
शाकल्यस्य ह्रस्वश्च इत्येतदनुवर्तते। ऋकारे परतः शाक्ल्यस्य आचार्यस्य मतेन अकः प्रकृत्या भवन्ति ह्रस्वश्च तस्यकः स्थाने भवति। खट्व ऋश्यः। माल ऋश्यः। कुमारि ऋश्यः। होतृ ऋश्यः। ऋति इति किम्? खट्वेन्द्रः। अकः इति किम्। वृक्षावृश्यः। सवर्णार्थमनिगर्थं च वचनम्।
TBD.
61
93 ऋत्यकः। `अकः' इति षष्ठी। `शाकल्यस्य ह्यस्वश्चे'त्यनुवर्तते। असवर्णं इति निवृत्त्म्। `एङः पदान्ता'दित्यतः पदान्तादित्यनुवर्तते। तच्च षष्ट\उfffद्न्ततया विपरिणम्यते। ततः `पदान्तस्याऽक ऋति ह्यस्वो वा स्या'दित्येकं वाक्यं सम्पद्यते। चकारात्प्रकृत्येत्यनुकृष्यते। `उक्तो ह्यस्वः प्रकृत्या अवतिष्ठते' इति द्वितीयं वाक्यं संपद्यते। तदाह–ऋति परेऽकः प्राग्वदिति। ब्राहृ ऋषिरिति। ब्राहृआ–ऋषिरिति स्थिते आकारस्य ह्यस्वः प्रकृतिभावश्च। ततश्चाद्गुण इति परपः अकारो न भवति। अत्रा।ञऽकारस्य इक्त्वाऽभावादिकोऽसवर्णे इत्यप्राप्ते इदं वचनम्। ब्राहृर्षिरिति। उक्तह्यस्वसमुच्चितप्रकृतिभावाऽभावपक्षे आद्गुण इति अकारः। रपरत्वम्। `ऋत्यस्ये'त्येव तु न सूत्रितम्। होतृ-ऋकार इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यरकत्वात्। पदान्ता इत्येवेति। पदान्तग्रहणमत्राप्यनुवर्तनीयमेवेत्यर्थः। आच्र्छदिति। ऋ गतौ। लङ् तिप् शप्। पाघ्राध्मेति ऋच्छादेशः। `इतश्चे'ति इकारलोपः, `आडजादीना'मित्याडागमः, आटश्चेति वृद्धिः। आ ऋच्छदिति स्थिते आकारस्याऽकः पदान्तत्वाऽभावान्नोक्तः प्रकृतिभावः। न समास इति पूर्वसूत्रस्थं निषेधवार्तिकमिह न संबध्यत इत्याह–समासेऽपीति। सप्तऋषीणामिति। `दिक्संख्ये संज्ञाया'मिति समासः। सप्तऋषीणासिति प्रकृतिभावपक्षे रूपं तदभावपक्षे तु आद्गुण इति गुणे रपरत्वे सप्तर्षीणामिति भवति।
75 ऋत्यकः। ब्राहृ ऋषिरिति। ननु `ऋत्यस्ये'त्येव सूत्रमस्तु। `दधि ऋच्छती'त्यादौ `इकोऽसवर्णे'इत्यनेनैव प्रकृतिभावसिद्धेः। मैवम्। `होतृ-ऋकार' इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यकत्वात्। एतेन `अकोऽसवर्णे' इत्येकमेव सूत्रमस्त्विति शङ्काया निरवकाश एव, उक्तदोषाऽनिवृत्तेः, सप्तॠषीणामित्यत्र `न समासे' इति निषेधापत्तेश्च। `न समासे' इति निषेधवार्तिकं हि `इकोऽसवर्णे' इति सूत्र एव, न तु `ऋत्यकः' इत्यत्रेति सिद्धान्तः। अत एवाह–समासे ऽप्ययमिति। एवं च `ऋलृवर्णयोः' इति पूर्वोक्तो निर्देशः सङ्गच्छते।
TBD.