TBD.
धातोरनभ्यासस्य इति वर्तते। सन्यङोः इति च षष्ठ्यन्तम् एतत्। सनन्तस्य यङन्तस्य च अनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पिपक्षति। पिपतिषति। अरिरिषति। उन्दिदिषति। यङन्तस्य पापच्यते। अटाट्यते। यायज्यते। अरार्यते। प्रोर्णोनूयते। अनभ्यासस्य इत्येव जुगुप्सिषते। लोलूयिषते।
TBD.
709 सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य. सन्यतः. पठितुमिच्छति पिपठिषति. कर्मणः किम्? गमनेनेच्छति. समान कर्तृकात् किम्? शिष्याः पठन्त्वितीच्छति गुरुः. वा ग्रहणाद्वाक्यमपि.. लुङ्सनोर्घसॢ..
231 सन्यङोः। अवयवषष्ठ\उfffदेषा। प्रत्ययत्वात्तदन्तग्रहणम्। `एकाचो द्वे प्रथमस्ये'ति `अजादेर्द्वितीयस्ये'ति चाधिकृतं। तदाह–सन्नन्तस्येत्यादिना। `सनि यङि च परे' इति तु न व्याख्येयम्, तथा सति प्रतिपर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति, अटाट\उfffद्ते इत्यत्र प्रत्ययसहितस्य द्वित्वाऽनापत्तेः। अभ्यासकार्यमिति। हलादिशेषादिकमित्यर्थः। गुपिप्रभृतय इति। कितधातुभिन्ना गुप्तिजमानबधाश्चत्वारो `गुपेनिन्दाया'मित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः। कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादुदात्तेदेव सन् व्याधिप्रतिकारादिषु पञ्चस्वेवार्थेषु सन्भागिति भावः। दानशानौ त्विति। `दान खण्डने' `शान तेजने' इति धातू स्वरितेतावेव सन्तौ आर्जवे निशाने चाऽर्थे सन्भाजावित्यर्थः, तयोरनुपदमेव स्वरितेत्सु पाठादिति भावः। एते नित्यं सन्नन्ता इति। एते गुप्तिजादयः सप्त धातवो `गुपेर्निन्दाया'मित्यादिनिबद्धेष्वर्थेषु नित्यं सन्नन्ताः। निन्द्याद्यर्थकत्वे सनं विना एषां प्रयोगो नास्तीत्यर्थः। अर्थान्तरेषु तविति। निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धहिताः सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः। चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया ण्यन्तादकर्तृगेऽपि फले तङ् स्यादिति भावः। नन्वेवं सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरणं व्यर्थम्, उक्तरीत्या गोपनाद्यर्थकानामेषामनुबन्धरहितचौरादिकत्वनियमेन, निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाऽभावादित्यत आह–अनुबन्धकस्येति। गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्पलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्वं विज्ञायत इतिकृत्वा सन्नन्तात्तङित्यर्थः। नचैवमपि भ्वादिगणे एषां गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यं, भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः तदुक्तं भाष्ये– `गुपादिष्वनुबन्धकरणसामथ्र्यात्सन्नन्तादात्मनेपद'मिति। अत्र सन्नन्तादात्मनेपदमित्यक्त्वा केवलानामेषां शब्विकरणानां नास्ति प्रयोग इति सूचितम्। तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यपि सूचितम्। अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात्सन्नन्तादिव ण्यन्तादपि अकर्तृगे फले आत्मनेपदार्थत्वापातत्सन्नन्तादात्मनेपदमित्युक्तिरसङ्गता स्यादित्यन्यत्र विस्तरः। धातोरितीति। `आद्र्धधातुकं शेषः' इत्यत्र धातोर्विहितः प्रत्यय इति व#इहितविशेषणाश्रयणात्सनश्चास्य धात्वधिकारविहितत्वाऽभावान्नाद्र्धधातुकत्वमित्यर्थः। तेनेति। सन आद्र्धधातुकत्वाऽभावेनेत्यर्थः। जुगुप्सते इति। निन्दतीत्यर्थः। गुपेः सनि अनाद्र्धधातुकत्वादिड्?गुणेयोरभावे `सन्यङो'रिति द्वित्वे हलादिशेषेऽभ्यासचुत्वमिति भावः। जुगुप्सांचक्रे इति। `कास्प्रत्यया'दित्याम्। जुगुप्सिता। जुगुप्सिष्यते। जुगुप्सताम्। अजुगुप्सत। जुगुप्सेत। जुगुप्सिषीष्ट। अजुगुप्सिष्ट। अजुगुप्सिष्यत। तितिक्षते इति। तिक्ष्णीकरोतीत्यर्थः। मान्धातोः सनिद्वित्वे हलादिशेषे अभ्यासह्यस्वे `सन्यतः' इति इत्त्वे `मान्बधे' त्यभ्यासदीर्घे, `नश्चे'त्यनुस्वारे, मीमांसधातोर्लडादीति भावः। बधधातोः सनि विशेषमाह– भष्भाव इति। बकारस्य भकार इत्यर्थः। चत्र्वमिति। धस्य तकार इत्यर्थः। तथा च `भत्से'ति सन्नन्तं संपन्नम्। बीभत्सते इति। भष्त्वचत्र्वयोरसिद्धत्वात् बध् इत्यस्य द्वित्वे हलादिशेषे `सन्यतः' इति इत्त्वे `मान्बधे'ति दीर्घे बीभत्सधातोर्लडादिति भावः। तदेवं गुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाह्मताः। कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पठिष्यमाणास्तत्र तत्रोदाहरिष्यन्ते। रभ राभस्ये इति। अनिडयम्। राभस्यं– शीघ्रीभावः। आङ्पूर्वकस्तु प्रारम्भर्थकः। तदाह–आरभते इति। रब्धेति। `झषस्तथो'रिति धत्वं, भस्य जश्त्वम्। रप्स्यत इति। रभताम्। अरभत। रभेत। रप्सीष्ट। अरब्ध। अरप्स्यत। डु लभषिति। डुरित् षकारश्च। `ड्वितः क्रिः' `षिद्भिदादिभ्यो'ऽङिति प्रयोजनम्। अनिट्। रभधातुवद्रूपाणि। ष्वञ्ज परिष्वङ्गे इति। षोपदेशोऽयमनिट्।
203 सन्यङोः। सप्तमीमाश्रित्य सनि यङि च परे इति व्याख्यायां– `प्रतीषिषति,' `अटाट\उfffद्ते' इत्यादि न सिध्येत्, सन्यङोः प्रकृतिभागस्यैव द्वित्वप्रसक्तेरत आह– सन्नन्तस्येति। ननु सप्तमीपक्षेऽपि सन्यङोरेव द्वित्वं स्यान्न तु प्रकृतिभागस्य, शपोऽकारेणैव जुगुप्सते तितिक्षते इत्यादिरूपसिद्धेस्तयोरकारोच्चारणस्य `अजादेर्द्वितीयस्ये'ति द्वित्वार्थत्वात्। यद्यपि निमित्तस्य कार्यित्वस्वीकारे आट आटतुरित्यादौ। लिटि परतः पूर्वभागमात्रस्य द्वित्वं न सिध्येत्तथाप्यकारोच्चारणसामथ्र्यात्सन्यङोः कार्यित्वमभ्युपगन्तुं शक्यमिति चेन्मैवम्।अकारफलानां बहूनां सत्त्वात्। तथाहि—- दित्स्यं धित्स्यमित्यत्राऽचो यति कृते `यतोऽनावः' इत्याद्युदात्तः सिध्यति। अकाराऽभावे तु `ऋहलो'रिति ण्यतीष्टस्वरो न सिध्येत्। किंच `पिपठिषि ब्राआहृणकुलानी'त्यत्राऽल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न भवति, अकाराऽभावे तु स्यादेव नुम्। अपिच `पापचक' इत्यादावल्लोपस्य स्थानिवत्त्वात् `अत उपधायाः' इति वृद्धिर्न प्रवर्तते। अपि च `यस्य हलः' इत्यत्र यस्येति सङ्घातग्रहणमहर्यीदित्यादौ यलोपव्यावृत्त्यर्थमिति सर्वसंमतम्। तथा च `अपापचिष्टे' त्यादौ यलोपोऽप्यकारफलमिति `सन्यङो' रिति षष्ठ\उfffदेव युक्ता। एवं हि यङ्लुकि प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वं सिध्यति। परसप्तम्यां तु द्वित्वस्याऽङ्गकार्यत्वात् `न लुमते' ति निषेधः प्रवर्तेतेति दिक्। दानशानौ चेति। आर्जवनिशानार्थविति भावः। अर्थान्तरे त्विति। धातुपाठोपात्ते गोपनादिरूपेऽर्थे इत्यर्थः। अननुबन्धका इति। सानुबन्धकत्वे तु केवलेऽचरितार्थत्वादऽनुबन्धस्य सन्नन्तादिवाऽकर्तृगफलाण्ण्यन्तादपि तङ् स्यादिति भावः। एवं चानुपूर्वीमात्रसाम्येऽपि भ्वादयश्चुरादिभ्यो भिन्ना एवेति फलितम्। इड्गुणौ नेति। यद्यपि `हलन्ताच्चे'ति सनः कित्त्वेनापि गुणाऽभावः सुसाधस्ततापीडभावार्थमुक्तहेतुरेवाश्रयणीय इति किं हेत्वन्तराश्रयणेनेति भावः। केचित्तु अर्थवद्ग्रहणपरिभाषया इच्छासन एव `हलन्चाच्चे'ति सूत्रे ग्रहणमिति नाऽस्य स्वार्थसनः कित्त्वमित्याहुः। रभ राभस्ये। राभस्यमुपक्रमः। लिटि रेभे। रेभाते। लुङि अरब्ध। अरप्साताम्। डुलभष्। `ड्वितः क्रिः' लप्त्रिमम्। `षिद्भिदादिभ्य' इत्यङ्। लभा। लिटि– लेभे। लुङि–अलब्ध।
वृत्तिः सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । There is reduplication of the first portion – containing a single vowel – of a सन्नन्त-धातुः (verbal root ending in the affix “सन्”) which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
Example continued from 3-1-7
पठ् + इस
= पठ् पठ् + इस 6-1-9
= प पठ् + इस 7-4-60
= पि पठ् + इस 7-4-79
= पिपठिष 8-3-59
“पिपठिष” has धातु-सञ्ज्ञा by 3-1-32
Example continued under 1-3-62