Table of Contents

<<6-1-81 —- 6-1-83>>

6-1-82 क्रय्यस् तदर्थे

प्रथमावृत्तिः

TBD.

काशिका

क्रीणातेः धातोः तदर्थे क्रयार्थें यत् तस्मिन्नभिधेये यति प्रत्यये परतः अयादेशो निपात्यते। क्रय्यो गौः। क्रय्यः कम्बलः। क्रयार्थं यः प्रसारितः स उच्यते। तदर्थे इति किम्? क्रेयं नो धान्यं, न च अस्ति क्रय्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

67 क्रय्यस्तदर्थे। इदमपि यान्तादेशनिपातनार्थम्। तदर्थशब्दं व्याचष्टे - तस्मा इति। क्रय्यशब्दे यः क्रीञ्धातुर्यत्प्रत्ययप्रकृतिभूतस्तस्ययोऽर्थोऽभिधेयो द्रव्यविनिमयरूपः क्रयः स प्रकृत्यर्थस्तच्छब्देन विवक्षितः। तस्मै इदं तदर्थं=क्रयार्थं वस्तु। तथाच क्रयार्थे वस्तुनि गम्ये क्रीञ्धातोर्यादौ प्रत्यये परे इति फलति। `यान्तः क्रीञस्तदर्थ' इति विधौगौरवान्निपातनमाश्रितम्। क्रयार्थत्वं चात्र फलोपधायकं विवक्षितमित्याह–क्रेतार इत्यादि क्रय्यमित्यन्तम्। योग्यतामात्रग्रहणे तु `तदर्थे'इत्यव्यावर्तकं स्यादिति भावः। क्रीञः कर्मणि `अचो यत्' इति यत्। `सार्वधातुके'ति गुण एकारः। अत्रैकारस्याऽच्परकत्वाऽभावादनेनाऽयादेशविधिः। क्रेयमन्यदिति। गृहादौ भोजनाद्यर्थं संगृहीतं धान्यादीत्यर्थः। `अर्हे कृत्यतृचश्चेति'यत्। अत्राऽयादेशो न भवति, फलोपधानस्य क्रयार्थत्वस्य तत्राऽभावादित्यर्थः।

तत्त्वबोधिनी

56 प्रकृत्यर्थायेति। प्रकृत्यर्थो द्रव्यविनिमयः।

Satishji's सूत्र-सूचिः

TBD.